OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 23, 2020

पूरीनगर्याः परम्परा न अवरुद्धा भविष्यति। उच्चन्यायलेन श्व: भगवतो जगन्नाथदेवस्य रथयात्रायाः सञ्चालनाय आदेशः दत्तः।

पूर्यां अद्य रात्रौ नववादनात् बुधवासरे मध्याह्ने द्वि वादने तावत् पिधानम्।

       भुवनेश्वरम्> जगन्नाथपूर्याम् श्वः रथयात्रा आयोजयिष्यते।  उच्चन्यायालयः यात्रायै अनुमतिम् अयच्छत्, श्रद्धालवः अस्यां यात्रायां सम्मिलिताः न भविष्यन्ति। न्यायालयेन कथितं यत् देवालयसमितिः राज्यसर्वकारस्य केन्द्रसर्वकारस्य च समन्वयेन सह यात्रां निष्कासष्यति। परं जनानां स्वास्थ्येन साकं कथमपि सामञ्जस्यं नैव कर्तव्यम्। यदि स्थितिः अनियन्त्रिता भविष्यति  तर्हि ओडिशा सर्वकारः यात्रां स्थागितुं शक्ष्यति। सहैव कथितं यत् पूरीम् अतिरिच्य ओडिशायाम् कुत्रापि यात्रा नैवायोजयिष्यते।