OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 8, 2020

विश्वे कोविड्१९ रोगबाधिताः ७० लक्षाधिकाः। 
   वाषिङ्टण्> विश्वे कोविड्१९ रोगबाधितानां संख्या अशीतिसहस्राधिकसप्ततिलक्षं अभवत्। गतचतुर्विंशतिघण्टाभ्यन्तरे अष्टाविंशत्यधिकैकलक्षाधिकेषु जनेषु रोगः स्थिरीकृतः अस्ति। अमेरिक्कदेशे रोगबाधितानां संख्या विंशतिलक्षं, मरणसंख्या द्वादशसहस्राधिकैकलक्षं च अभवत्। विश्वे एतावता कोविड्१९ मरणसंख्या ४.५ लक्षम् अभवत्। अधुना यूरोपीयराष्ट्रेषु कोविड्१९ नियन्त्रणविधेयः अभवदिति विश्वस्वास्थ्यसंस्था अवदत्। किन्तु अमेरिक्क, लाटिन् अमेरिक्क, एष्यः,आफ्रिक्क इत्यादिषु भूप्रदेशेषु रोगव्यापनम् आशङ्काजनकमेवेति संस्था असूचयत्। अतः सामूहिकसुरक्षानिर्देशाः अवश्यं पालनीयाः इत्यपि विश्वस्वास्थ्यसंस्था निरदिशत्।