OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 16, 2020

२०२१ तमस्य वर्षस्य ओस्कर् पुरस्कारप्रख्यापनम् - दिनाङ्कः परिवर्तितः। 

ट्विटरतः स्वीकृतं चित्रम्।
       वाषिङ्टण्> विश्वे सर्वत्र कोविड्१९ रोगव्यापनं रूक्षतां प्राप्तेऽस्मिन् सन्दर्भे अग्रिमवर्षस्य ओस्कर् पुरस्कार-प्रख्यापनस्य दिनाङ्कः अपि परिवर्तितः। २०२१ फेब्रुवरिमासस्य २८ दिनाङ्के निश्चितः पुरस्कारप्रख्यापनसमारोहः एप्रिलमासस्य २५ दिनाङ्कं प्रति परिवर्तितः अस्ति। केविड्१९ व्यापनतया बहूनां चलनचित्राणां चित्रीकरणं स्थगितम् अस्ति। २०२० वर्षान्ते एव तासां सिनेमानां चित्रीकरणं पूर्तीकर्तुं शक्यते इत्यतः एव अधिकृतैः पुरस्कार-प्रख्यापनदिनाङ्कः परिवर्तितः वर्तते। पूर्वं प्रतिकूलवेलायां १९३८,१९६८,१९८१ इत्यदिसंवत्सरेष्वपि ओस्कर् पुरस्कार-प्रख्यापनदिनाङ्कः एवं परिवर्तितः आसीत्।