OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 12, 2020

कोविड्बाधितसंख्या - भारतस्य चतुर्थं स्थानम्। 
 नवदिल्ली >   कोविड्बाधितानां संख्यायां भारतस्य प्रयाणमनुवर्तते। कोविड्व्यापनं रूक्षमाणेषु राष्ट्रेषु ब्रिट्टनम् अपसार्य भारतं चतुर्थस्थानं प्राप्तम्। ह्यस्तनं प्रतिदिनविषाणुव्यापनं दशसहस्रमतीतमित्यनेन निखिलाः कोविड्बाधिताः २,९१,४३६ अभवन्। अन्तिमसूचनामनुसृत्य ब्रिट्टने कोविड्बाधितानां संख्या २,९१,४०९  आसीत्। 
  भारतस्य महन्नगरेषु विषाणुव्यापनं अनियन्त्रितरीत्या प्रवर्धते।
  महाराष्ट्रे कोविड्बाधितसंख्या तथा मृत्युसंख्या च निरङ्कुशमुद्गच्छति। ह्य एव ३६०७ जनेषु रोगः दृढीकृतः ,१५२ जनाः मृत्युमुपगताश्च। अनेन रोगिणां संख्या ९७,००० अतीता। रुग्णसंख्यायां चीना,कानडा राष्ट्रद्वयं महाराष्ट्रेण अपासृतम्। 
  तमिल्नाटे कोविड्बाधिताः ३८,७१६ जाताः। मरणानि ३४९। चेन्नै जनपदे रुग्णाः अद्यावधि २७,३९८ अभवन्। ह्यः नगरे १४०७ जनाः रोगबाधिताः। आहत्य २०,७०५ रोगमुक्तिं प्राप्ताः च। 
 गुजराते ह्यः ५१३ जनाः कोविड्बाधिताः अभवन्। अहम्मदाबादे एव ३३० जनेषु विषाणुबाधा स्थिरीकृता। गुजराते रोगबाधा २२,०६७ सत्यां अहम्मदाबादस्य योगदानं १५,६३४ अस्ति। 
  दिल्ल्यां रुग्णाः ३४,६८७ जाताः, मृत्युसंख्या तु १०८५। कीन्तु मरणस्य यथातथसंख्या दिल्लीसर्वकारेण निलीना कृतेति सूचना आगच्छति। २०९८ मरणान्यभवन्निति उत्तरदिल्लीनगरसभायाः आवेदनपत्रेण स्पष्टीक्रियते। 
  प्रत्युत राष्ट्रस्य प्रतिदिनकोविड् शोधना सार्धसहस्रमतीतेति ऐ सि एम् आर् अधिकारिणा निगदितम्।