OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 21, 2020

वनं-परिस्थितिमन्त्रालयस्य स्वागतगानं संस्कृते। 
 उपज्ञाता केरलीयः वनशास्त्रज्ञः। 
डो. कण्णन् सि एस् वार्यरः।
तृश्शूर् >  केरलीयवनशास्त्रज्ञेन क्रमीकृतं संस्कृतभाषायां विरचितं प्रकृतिवन्दनगानं केन्द्र वनं-परिस्थितिमन्त्रालयेन स्वागतगानं कारयति। कोयम्पत्तूरस्थे केन्द्रीयतरुप्रजननकेन्द्रे मुख्यशास्त्रज्ञाध्यक्षः हरिप्पाट् प्रदेशीयः डो.कण्णन् सि एस् वारियरः एव गानमिदं संस्कृतभाषायां प्रकृतिवन्दनरूपेण व्यरचयत्। 
  यजुर्वेदमाधारीकृत्य एवास्य रचना कृता। कर्णाटकसंगीतस्थेषु 'नाट्टा' 'आनन्दभैरवी' ,'हंसध्वनिः' इत्येतेषु रागेषु क्रमीकृतमिदं गानं वारियरेणैव आलपितमस्ति। मिनिटद्वयं दीर्घितमिदं स्वागतगानम्। 
  २००२तमे वर्षे केन्द्रवनं-परिस्थितिमन्त्रालयेन आयोजितायै सङ्गोष्ठ्यै विरचितमिदं प्रकृतिवन्दनम्। ततः मन्त्रालयस्य सङ्गोष्ठीषु स्वागतगानरूपेण स्वीकृतम्। केन्द्रवनं-परिस्थितिमन्त्रिणः अवधाने आगतमिदं गानं मन्त्रालयस्य स्वागतगानं कारयितुं निर्णयः कृतः आसीत्।