OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 27, 2020

कोविड् प्रतिरोधौषधम् वर्षान्ते यावत् - अमेरिक्क।
        वाषिङ्टण्> कोविड् महारोगं प्रतिरोद्धुम् उपयोजकं औषधम् अस्मिन्नेव वर्षे सज्जीकरिष्यति इति अमेरिक्कस्य स्वास्थ्यविभागस्थः मुख्यः कार्यनिर्वाहकः अलक्स् असर् न्यवेदयत्। अमेरिक्कस्य औद्योगिकगृहे सम्पन्ने वार्तामेलने सः विषयममुं न्यवेदयत्। औषधनिर्माणाय प्रयत्नः वर्षान्ते यावत् सफलं भविष्यति इति सः अवदत्। आवश्यकानि निरीक्षण-परीक्षणानि कृत्वा औषधप्रयोगविषये अन्तिमं निर्णयं स्वीकरिष्यति इति ते न विशदीकृतम्। अधुना परीक्षणरीत्या रिम्डिसिवर् डेक्सामेथासो चेति औषधद्वयं रोगिभ्यः दीयमानं वर्तते इति सः अवदत्।