OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 9, 2020

निर्देशाः यथातथं पालिताः।
न्यूसिलान्ट् कोविड्मुक्तमभवत्।
न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्ता आर्डण्। 
वेल्लिङ्टण् >  स्वास्थ्यप्रवर्तकानां निर्देशाः जनैः स्पष्टतया पालिताः। अतः रोगव्यापनं ११५४ जनेषु नियन्त्रितं कृतम्। २२ जनाः मृत्युमुपगताः। मासत्रयस्य अक्षीणप्रयत्नेन न्यूसिलान्ट् राष्ट्रं कोविड् मुक्तं जातम्। 
  अविश्वसनीयया कृतहस्ततया आसीत् न्यूसिलान्टे कोविड्प्रतिरोधप्रवर्तनानि परिकल्पितानि। अन्तिमस्य कोविड्रोगिणः रोगमुक्त्यनन्तरं  अनुस्यूततया १७ दिनैः नूतनकोविड्बाधितस्य अभावेन राष्ट्रं कोविड्मुक्तमिति प्रधानमन्त्रिण्या जसिन्डा आर्डेण् वर्यया उद्घुष्टम्। अनेन राष्ट्रे विहितानि सर्वाणि नियन्त्रणानि निरस्तानि। किन्तु वैदेशिकानां राष्ट्रे प्रवेशः साम्प्रतमपि निरुद्धः। 
  फेब्रुवरिमासे आसीत् प्रथमं कोविड्प्रकरणं प्रत्यभिज्ञातम्। मार्च् २५दिनाङ्के सम्पूर्णपिधानम् आयोजितम्। स्वास्थ्यमन्त्रालयस्य तथा स्वास्थ्यप्रवर्तकानां निर्देशान् सर्वे जनाः नितान्तजाग्रतया याथातथ्येन च परिपालितवन्तः। कोविड्मुक्तिप्रख्यापनवेलायां जसिन्डावर्यया उक्तम् - "धन्यवादः न्यूसिलान्ट्" ।