OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 25, 2021

 चीने पुनरपि कोविडः - 'मारत्तण्' व्याक्षिप्तम्। 

  बेय्जिङ्> चीनदेशे बहुकालानन्तरं कोविड्रोगः व्याप्यते। रविवासरे २६ जनाः अपि रोगबाधिताः अभवन्। अतः वुहाननगरे गतदिने आयोज्यमानं 'मारत्तण्'नामिका धावनक्रीडा किञ्चित्कालं यावत् व्याक्षिप्ता। आगामिसप्ताहे आयोज्यमानं बीजिङ् मारत्तणमपि विलम्बायितं कृतम्। 

  कोविडस्य प्रत्यागमनेन चीनदेशे सर्वत्र नियन्त्रणानि तीव्राणि कृतानि। केषुचित्स्थानेषु लोकयान - टैक्सी सेवनानि समापितानि।राष्ट्रं प्राप्तेभ्यः विनोदयात्रिकेभ्यः डेल्टा प्रभेदः व्याप्तः इति कारणतः एव रोगव्यापनं जातमिति सूच्यते।