OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 1, 2021

वित्तकोशीयलिपिकपरीक्षाणां प्रश्नपत्राणि प्रादेशिकभाषास्वपि। 

  नवदिल्ली> राष्ट्रे सार्वजनीनवित्तकोशेषु नियुज्यमानानां लिपिकानां परीक्षासु प्रश्नपत्राणि आङ्ग्ल-हिन्दीभाषाभ्यां  अतिरिच्य १३ प्रादेशिकभाषास्वपि सज्जीकर्तुं भारतीयवित्तमन्त्रालयेन निर्देशः दत्तः। राष्ट्रस्य १२ सार्वजनिकमण्डलस्थानां वित्तकोशानां रिक्तस्थानेभ्यः इतःपरं विज्ञापनीयासु विज्ञप्तिपत्रिकासु प्राथमिक मुख्यपरीक्षाः प्रादेशिकभाषाभिरपि लेखितुमनुज्ञा दास्यति। 

  बैङ्कानां लिपिकस्थानेभ्यः आयोज्यमानासु परीक्षासु प्रादेशिकभाषाभिरपि परीक्षाः चालनीयाः इति वित्तमन्त्रालयेन रूपीकृतया समित्या निर्देशः दत्तः आसीत्। तदनुसृत्य एवायं निर्णयः। एस् बी ऐ, कानरा, यूणियन् बैंक् आफ् इन्डिया इत्यादीनां वित्तकोशानां लिपिकपरीक्षार्थिभ्यः अयं निर्णयः उपकारी भविष्यति।