OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 18, 2021

 अफ्गानस्य विषये सुरक्षाकर्मकराणां मेलनम् आयोजयितुं सज्जमभवत् भारतम्। 

पाकिस्थानः अपि भागं स्वीकरिष्यति।

  नवदिल्ली> अफगानस्य विषये चर्चितुं विविधराष्ट्राणाम् उन्नतस्तर - सुरक्षाकर्मकराणां मेलनम् आयोजयितुं भारतं सज्जते। भारतं, रष्यः, चीनः,  यु एस् प्रभृतयः राष्ट्राः मेलने भागं स्वीकरिष्यन्ति इति प्रतीक्षते। नवम्बर् मासस्य द्वितीये सप्ताहे एव मेलनं भविष्यति इति टैंस् आफ् इन्ट्या पत्रिकया प्रतिवेदितम्।

मेलने भागं गृहीतृन् अतिथीन् अधिकृत्य औद्योगिकस्थिरीकरणम् इदानीं न लब्धम्। मेलने तालिबानस्य आमन्त्रणपत्रिकासमर्पणसाध्यता नास्ति। किन्तु पाकिस्थानम् आमन्त्रयिष्यति इति सूचना अस्ति। पाकिस्थानस्य सुरक्षाकर्मकराय मोयिद् युसूहाय  आमन्त्रणपत्रिकायाः प्रेषणं विलम्बायितम् इत्यपि प्रतिवेदनमस्ति।