OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 3, 2021

 आस्ट्रेलिया यात्रानिरोधं निवारति। 

कान्बरा > सार्धसंवत्सरं दीर्घितं यात्रानिरोधं निवार्य आस्ट्रेलिया वाक्सिनीकृतानां  स्वनागरिकाणां कृते सीमाः उद्घाटयति। नवम्बरस्य प्रथमदिनाङ्कादारभ्य नागरिकाः विदेशयात्राः कर्तुमर्हन्तीति प्रधानमन्त्रिणा स्कोट् मोरिसणेन निगदितम्। राष्ट्रे षोडशोपरिवयस्केषु ८०% जनाः वाक्सिनीकृताः इत्यस्य आधारे एवायं निर्णयः। 

   किन्तु विदेशीयानां कृते राष्ट्रप्रवेशः कदा दास्यतीत्यस्मिन् विषये अस्पष्टता वर्तते। २०२० मार्च् २० दिनाङ्कादारभ्य आसीत् राष्ट्रे यात्रानिरोधः प्रकल्पितः। कोविडस्य प्रकरणे कर्कशं यात्रानियन्त्रणं वर्तितेषु राष्ट्रेषु अन्यतमा आस्ट्रेलिया।