OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 27, 2021

 मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता

 मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता। तद्देशस्य प्रधानमन्त्रिणा जस्‍टिन ट्रुडे इत्यमुना लिबरल पार्टीति दलस्य पुनरेकवारं शासनावाप्तेः एकमासानन्तरं मन्त्रिमण्डले परिवर्तनं कृतम्।

सुश्री आनन्दः सुदीर्घकालं कानडा देशस्य रक्षामन्त्री पदासीनस्य मूलतो भारतीयस्य हरजीत-सज्‍जनस्य स्‍थानं प्राप्तवती। हरजीत-सज्जनेन सैन्‍यदुष्‍कर्मविषयस्य निराकरणम् आलक्ष्य आलोचना सम्मुखीक्रियते। कानाडा देशस्य

नूतने मन्त्रिमण्डले महिला सदस्‍यानां सन्तुलिता सहभागिता दृश्यते। सुश्री आनन्दः एकस्य समवायस्य अधिवक्‍त्रित्वेन अपि कार्यं कृतवती। निरस्तीकृते मन्त्रिमण्डले सम्मिलिताः मूलतो भारतीयाः हरजीत-सज्‍जनः अनीता आनन्दः बार्द‍िश-छग्‍गडः च गतमासे सम्पन्ने संसदीये निर्वाचने विजयं प्राप्तवन्तः।