OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 17, 2021

 केरलराज्यस्य चलनचित्रपुरस्कारः प्रख्यापितः - जयसूर्यः नटः, अन्ना बन् नटी, दि ग्रेट् इन्डियन् किच्चन् श्रेष्ठचित्रम्। 

अनन्तपुरी > 'कप्पेला' इति चलच्चित्रे जेसी इति कथापात्रं श्रेष्ठरीत्या अवतारिता अभिनेत्री अन्नाबन् केरलराज्यस्य २०२० तमस्य श्रेष्ठनटीपुरस्कारार्हा विहिता। 'वेल्लम्' इति चलच्चित्रे मुरलिः इति कथापात्ररूपेण परिणमितः जयसूर्यः श्रेष्ठनटरूपेण चितः। दि ग्रेट् इन्डियन् किच्चन् भवति श्रेष्ठं चलच्चित्रम्। 

 अन्ये पुरस्काराः एवम् - 

श्रेष्ठः निदेशकः - सिद्धार्थ शिवः [चित्रं 'एन्निवर्], जनप्रीतिभूतं चलच्चित्रं - 'अय्यप्पनुं कोशियुम्' , दृश्यकथाकारः - जियो बेबिः [चित्रं दि ग्रेट् इन्डियन् किच्चन् ]