OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 29, 2021

 नागरिकविमानन-महानिदेशालयेन अन्ताराष्‍ट्रिय-वाणिज्यिक-यात्री-विमानसेवा नवम्बर मासस्य ३०दिनाङ्कं यावत् स्थगिता

नवदेहली> नागरिकविमानन-महानिदेशालयेन अन्ताराष्‍ट्रिय- -वाणिज्यिक-यात्री-विमानसेवा नवम्बर मासस्य त्रिंशद्दिनाङ्कं यावत् स्थगिता। निदेशालयस्य परिपत्रे लिखितमस्ति यत् अन्तराष्‍ट्रियविमानसेवायाः अन्तर्गतं वस्तूनां परिवहने अथ च विशिष्‍टरूपेणानुमोदितासु  विमानसेवासु प्रतिबन्धो नैव भविष्यति। निदेशालयेन इदमपि उक्तं यत् सक्षमः प्राधिकारिणः चयनितमार्गेषु निर्धारितन्ताराष्‍ट्रियविमानसञ्चालनस्य अनुमतिं दातुं शक्नुवन्ति। अवधेयं यत् केन्द्र प्रशासनेन कोविड् महामारी कारणेन गतवर्षे मार्च मासस्य त्रयोविंशतिः दिनाङ्कात् अन्ताराष्‍ट्रियविमानसेवा प्रतिबन्धितासीत्। अनन्तरं कतिपय देशेभ्यः Bubble  इति वाह्यरोध-व्‍यवस्‍थायाः अन्तर्गतं प्रतिबन्धेषु शैथिल्यं प्रदत्तम्।