OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 10, 2021

 लखिंपुरनरहत्या - मन्त्रिसुतः निगृहीतः। 

नवदिल्ली> उत्तरप्रदेशे लखिंपुरे पंरतिषेधान्दोलनं कुर्वन्तः कृषकाः यानघट्टनेन हताः इत्यस्मिन् प्रकरणे केन्द्र गृहसहमन्त्रिणः अजयमिश्रस्य पुत्रः आशिष्मिश्रः आरक्षकैः निगृहीतः। गतदिने आरक्षकसमक्षम् आत्मसमर्पणं कृतं आशिषं नवहोराधिकस्य परिपृच्छानन्तरमेव निग्रहणं कृतम्। 

  आशिषः निरपराधीति अन्वीक्षणसंघस्य पुरतः आवेदितवानिति ज्ञायते। दुर्घटनावेलायां सः प्रकृष्टस्थाने नासीदिति तेनोक्तम्। तत्प्रमाणीकर्तुं नैकानि वीडियोचित्राणि दशजनानां साक्ष्यपत्राणि च उपस्थापितानि। किन्तु तानि तस्य निरपराधित्वनिर्णये अपर्याप्तानीति आरक्षकैः सूचितमस्ति।