OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 26, 2021

 मध्यप्रदेशे वाक्सिनस्य मात्राद्वयं स्वीकृतेषु षड्जनेषु कोविडस्य ए वै ४ विभेदः दृढीकृतः।

भोपाल्> मध्यप्रदेशे इन्डोर् जनपदे वाक्सिनीकरणं पूर्तीकृतेषु षड्जनेषु कोविड् वैराणोः ए ४ वै नाम नूतनप्रभेदः दृढीकृतः। नवदिल्ली राष्ट्रियरोगनियन्त्रणकेन्द्रेण (National centre for disease control) आयोजिते परीक्षणे एव नूतनप्रभेदः दृढीकृतः। गते सेप्तम्बर् मासे एतेषां वैराणूनां जनितकश्रेणीनिर्णयाय प्रेषितः इति मध्यप्रदेशस्य मुख्यभैषज्य स्वास्थ्याधिकारिणा (Madhya Pradesh chief medical and health officer) बि एस् सत्येन प्रोक्तम्। प्रथमतया एव राज्ये कोविडस्य एषः प्रभेदः दृढीकृतः इत्यपि सः व्यजिज्ञपत्। रोगबाधितैः सर्वैरपि पूर्वं वाक्सिनीकरणं पूर्तीकृतम् आसीत्। अधुना चिकित्सिताः ते सुखं प्राप्ताः इत्यपि सः उक्तवान्।