OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 11, 2021

 ऊर्जसमस्या नास्ति। परिभ्रान्तिं प्रसारयति चेत् प्रक्रमः स्वीकरिष्यति। अङ्गारइन्धनस्य दौर्लभ्यं परिहरिष्यति इति केन्द्र सर्वकारः।

  नवदिल्ली> राष्ट्रे अङ्गारदौर्लभ्येन ऊर्जसमस्या भविष्यति इति प्रतिवेदनं केन्द्रसर्वकारेण निषेध्यते। अस्मिन् विषये अनावश्यकीं परिभ्रान्तिं न सृजेत् इति भारतस्य ऊर्जमन्त्रिणा आर् के सिंहेन अभ्यर्थितः। तापनिलयेषु पर्याप्तपरिमाणः अङ्कारः लभते। सञ्चयः चतुर्दिनेषु यावत् उपयोक्तुं पर्याप्तम् अस्ति इति तेन निगदितम्। अङ्गारखनिमन्त्रिणा प्रह्लाद् जोषिणा साकं निरन्तरं एतत् विषये चर्चां करिष्यन् अस्ति इत्यपि सः व्यजिज्ञपत्।