OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 31, 2021

 केरलेषु श्वः अवधानतया  छात्राः विद्यालयं गमिष्यन्ति। 

प्रथमस्तरे प्रथमतः सप्तमकक्ष्यापर्यन्तं तथा दशमः, द्वादशकक्ष्या च समारप्स्यन्ते।

   अनन्तपुरी> केरलराज्ये कोविडस्य हेतुना पिहिताः विद्यालयाः श्वः उद्घाटयिष्यन्ति। प्रवेशनोत्सवेन सह छात्रान् स्वीकर्तुं राज्यं पूर्णतया सज्जमिति शैक्षिकमन्त्रिणा शिवन्कुट्टि नामकेन आवेदितम्। पितृ  णां अनुमतिपत्रसहितं छात्रान् विद्यालये प्रेषणीयम्। आशङ्कायुक्ताः रक्षाकर्तारः सन्दर्भं निरीक्ष्य तदनन्तरं छात्रान् प्रेषितव्यम् इत्यपि मन्त्रिणा वार्तासम्मेलने अवदत्। मध्याह्नभोजनं दातुं मूलधनं परिकल्पितमस्ति। वाक्सिनस्य मात्रादयम् अलब्धाः अध्यापकाऽनध्यापकाः द्विसप्ताहपर्यन्तं विद्यालयं न आगन्तव्यम् इत्यपि मन्त्रिणा उक्तम्।