OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 14, 2021

 नेप्पाले बस् यानदुर्घटना - ३२ अपमृत्यवः। 

काठ्मण्डुः > नेप्पालदेशे मुगु जनपदे बस् यानं नदीं निपत्य ३२ यात्रिकाणाम् अपमृत्युः अभूत्। आहतेषु दशानामवस्था आशङ्काजनका वर्तते। 

  गङ्गाधितः नेप्पाल् गञ्च् इति स्थानं गतं यानमासीत् नदीं निपतितम्। विजयदशम्युत्सवेषु भागं कर्तुं स्वगृहाणि ये गतवन्तः आसन्, ते एव दुर्घटनायां  दुर्घटनायां पतिताः। नेप्पालसैन्यस्य रक्षाप्रवर्तनं प्रचलदस्ति।