OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 14, 2021

 उपराष्ट्रपतेः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपः। सुदृढं प्रतिरोध्य भारतम्।

 नवदिल्ली> उपराष्ट्रपतेः वेङ्कय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपाय भारतेन सुदृढं प्रतिवचनं दत्तम्। सीमाविषये विलम्बं विना चीनस्य सकाशात् निर्णयम् आवश्यकमिति भारतेन प्रोक्तम्। सीमाविषयेषु अनैक्यानि वर्तमाने अस्मिन् सन्दर्भे भारतस्य उपराष्ट्रपतेः वेङकय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनम् अनुचितम् इति चीनस्य विदेशकार्यवक्त्रा साहो लिजियानेन प्रोक्तमासीत्। 

भारतं प्रतिरोध्य चीनस्य औद्योगिकवक्तुः सकाशात् जाताः परामर्शाः भारतेन शक्तियुक्तं प्रतिरुध्यते। अरुणाचलः भारतस्य भागः भवति। तत् अन्याधीनं कर्तुं न शक्यते। राष्ट्रे यथा अन्येषु राज्येषु उपराष्ट्रपतिः गच्छति तद्वत् अरुणाचले अपि गच्छति। अस्मिन् विषये चीना किमर्थं विरुध्यते इति न ज्ञातुं शक्यते इति भारतस्य विदेशकार्यवक्त्रा अरिन्दं बाग्चिना निगदितम्।