OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 2, 2021

 महात्मागान्धिनः मूल्यानि लक्षशः जनान् दृढयन्ति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।

नवदिल्ली> महात्मागान्धिनः मूल्यानि लक्षशः जनान् शक्तिमन्तः कुर्वन्ति इति नरेन्द्रमोदिना गन्धिजयन्ति दिने ट्विट्टर् मध्यमद्वारा आवेदितम्। तस्य आदर्शाः अद्यापि विश्वस्मिन् प्रसक्तं भवति इत्यपि तेन उक्तम्। भारतस्य पूर्वतन प्रधानमन्त्रिणः लाल् बहदूर् शास्त्रिणः जयन्तिदिने सः आदराञ्जलिम् अर्पितवान्। मूल्येषु आदर्शेषु च अधिष्ठितं शास्त्रिणः जीवितं राष्ट्रे जनानां प्रचोदनदायकं भवति इति तेन प्रोक्तम्। महात्मागान्धिनः लाल् बहदूर् शास्त्रिणः च समाधिस्थले आगत्य प्रधानमन्त्री नरेन्द्रमोदी अन्ये प्रमुखाः नेतारः च आदराञ्जलिम् अर्पितवन्तः।