OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 27, 2021

 पर्यावरणव्यत्यये भारतस्य गतवर्षे ६.५ लक्षं कोटिरूप्यकाणां नष्टः। 

नवदिल्ली> पर्यावरणव्यत्ययेन जातेषु प्रकृतिदुरन्तेषु गतसंवत्सरे भारतस्य ६.५लक्षं कोटिरूप्यकाणां [८७००कोटि डोलर्] नष्टः अभवदिति विश्वपर्यावरणसंघटनस्य [WMO] आवेदनपत्रे सूच्यते। 

  उष्णमण्डलचक्रवाताः, जलोपप्लवः, अनावृष्टिः इत्यादयः प्रकृतिदुष्प्रभावाः एष्यन् राष्ट्रेषु कथं बाधन्ते इति विव्रियमाणे आवेदनपत्रे एवायं वृत्तान्तः।  स्कोट्लान्ट् मध्ये अस्मिन् मासे आयोज्यमाने संयुक्तराष्ट्रसंघटनस्य पर्यावरणशिखरसम्मेलने आवेदनपत्रमिदं चर्चिष्यतेति सूच्यते। प्रकृतिदुष्प्रभावैः अधिकतमः नष्टः चीनदेशे अभवत्। द्वितीयतृतीयस्थानयोः यथाक्रमं भारतं जापानं च वर्तेते।