OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 2, 2021

 आविश्वं कोविड्व्यापनम् आकुञ्चति - स्वास्थ्यसंघटनम्। 

जनीवा> अन्ताराष्ट्रियस्तरे कोविड्व्यापनं मरणञ्च आकुञ्चतीति विश्वस्वास्थ्यसंघटनेन आवेदितम्। सेप्टम्बर् २० आरभ्य २६ तमपर्यन्तं गणनायाः तारतम्यमनुसृत्य अस्मिन् सप्ताहे रोगबाधितानां संख्या दश प्रतिशतस्य आकुञ्चनमभवत्। अधिकतमा न्यूनता अमेरिक्कायां सूचितम्। परन्तु ब्रिट्टने ब्रसीले च व्यापनस्य रेखीयमानं वर्धमानमस्ति। १९३ राष्ट्रेषु कोरोणाविषाणोः आल्फाप्रभेदः १४२ राष्ट्रेषु बीटा प्रभेदः १८७ राष्ट्रेषु डेल्टाप्रभेदः  ९६ राष्ट्रेषु गामाप्रभेदश्च अधिकतया दृश्यन्ते। 

  आविश्वमशेषतः २३.४ कोटिपरिमिताः जनाः कोविड्बाधिताः अभवन्। ४८ लक्षं जनाः मृत्युमुपगताः।  २१.१४ कोटिजनाः रोगमुक्तिं प्राप्तवन्तश्च।