OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 19, 2021

 केरले त्रयः सेतुकवाटाः उद्घाटयन्ति। जनै: जाग्रता पालनीया इति मुख्यमन्त्री पिणराई विजयः। 

अनन्तपुरी> राज्ये वृष्टिमनुवर्तमाने साहचर्ये अधिकजलनिर्गमनार्थं सेतुकवाटः उद्घाटयितुं निश्चिनोत्। अतः सेतोः समीपप्रदेशस्थाः जनाः अतीव जागरूकाः भवितव्याः इति केरलस्य मुख्यमन्त्रिणा आदेशः दत्तः। अवधानतां स्वीकृत्यैव सेतुकवाटाः उद्घाटयन्ते। इडुक्कि सेतोः कवाटः मङ्गलवासरे प्रातः एकादशवादने, इटमलयार् तथा   पम्पासेतुकवाटाः च प्रातः षड्वादने च उद्‌घाटयिष्यन्ते। सेतोः जलस्तरनिरीक्षणाय सर्वकारेण नियुक्तायाः समितेः निश्चयमनुसृत्यैव अधिकजलनिर्गमनाय पूर्वोक्तसेतूनां कवाटाः उद्घाटयितुं निश्चितः।