OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 16, 2021

 भारतं विश्वस्मिन् समुन्नतसैनिकशक्तिं करिष्ये - नरेन्द्रमोदी।

  नवदिल्ली> भारतं विश्वस्मिन् समुन्नतसैनिकशक्तिः करणीया इत्येव लक्ष्यम् इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। सर्वकारनियन्त्रणेषु वर्तमानान् सप्त निगमितप्रतिरोधयन्त्रागारः (corporate defence companies)  भारताय समर्प्य भाषमाणः आसीत् सः। स्वातन्त्र्यानन्तरं प्रथमतया प्रतिरोधस्तरेषु बहवः सुप्रधानाः परिष्काराः समभवन्। इदंप्रथमतया सुतार्यतया विश्वास्यतया च परिष्काराः संभूताः इत्यपि सः व्यजिज्ञपत्। प्रतिरोधसामग्रीणां प्रधानोत्पादकरूपेण भारतं परिवर्तयितुम् एकजालक विधानमपि सज्जीकृतमिति तेन निगदितम्।