OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 20, 2021

 भीकराक्रमणं - काश्मीरात् कर्मकराः पलायन्ते। 

  श्रीनगरम्> गतेषु कतिपयदिनेषु जम्मु काश्मीरे इतरराज्यकर्मकरान् लक्ष्यीकृत्य भीकराक्रमणानि वर्धितानि इत्यतः कर्मकराः पलायनं कुर्वन्ति। जन्मराज्यं गन्तुं नैकाः जनाः जम्मु, श्रीनगरम् इत्यादिषु रेल् निस्थानेषु सम्मर्दं कुर्वन्ति। भीकरेभ्यः भीताः एते परं कदापि काश्मीरस्य अधित्यकां न प्रत्यागमिष्यन्तीति सूच्यते। दिनद्वयाभ्यन्तरे चत्वारः राज्यान्तरकर्मकराः भीकराणां भुशुण्डिनां बलिभूताः अभवन्। 

  अस्य मासस्य आरम्भतः एव  अनेकानि भीकराक्रमणानि काश्मीरस्य अधित्यकायां जातानि। ११ सामान्यजना‌ः हताश्च।  बिहारं, उत्तरप्रदेशः इत्यादिभ्यः राज्येभ्यः संवत्सराणि यावत् काश्मीरे आपणकर्मसु व्यापृताः एव भीकरैः निहताः। हत्यानां उत्तरदायित्वं लष्करि तोय्बायाः अवान्तरविभागेन युणैटड् ल्बरेशन् फ्रण्ट् इत्यनेन स्वीकृतमस्ति।