OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 28, 2021

 दुर्भिक्षया दूयमानाः उत्तरकोरियाः


प्योङ्याङ्> राष्ट्रस्य नागरिकाः  अशने न्यूनता करणीया इति कोरियराष्ट्रस्य अधिपेन किं जोङ् उन्नेन आदिष्टाः। 2025 पर्यन्तं राष्ट्रं भैक्ष्यविषये न्यूनताम् अभिमुखीकरिष्यति इति तेन उक्तम्। राष्ट्रस्य सीमानः पिधानीकृताः सन्ति। उद्घाटनाय चत्वारि वर्षाणि प्रतिपालयन्तः स्युः।  तदभ्यन्तरे काले कालयापनाय खाद्यादिकं सावधानम् उपयोक्तव्यम् इति तेन जनाः आदिष्टाः। कोराणा व्यापनस्य कारणत्वेन उत्तरकोरियेन गतसंवत्सरे चीनेन सह विभक्तं सीमानं पिधानं कृतम्।  2025 संवत्सरात् पूर्वं सीमायाः उद्घाटनं न स्यात् इति कोरियस्य अधिकारिभिः प्रतिवेद्यते।