क्रैमियासेतुः युक्रैनेन भञ्जितः।
कीव्> कैमियानामकम् उपद्वीपं रष्यया सह सम्पर्कमानः प्रमुखः क्रैमियासेतुः युक्रैनेन अंशतया भञ्जितः। दक्षिणयुक्रैनस्य युद्धमुखं प्रति रष्या युद्धसामग्रीः अनेन सेतुमार्गेणैव नयति।
आक्रमणमिदं मासैकात्परं यावत् सप्तचरणैः दीर्घितेन आसूत्रणेनैव विधत्तमिति युक्रैनस्य राष्ट्रपतिः वोलोदिमिर् सेलन्स्किः न्यगादीत्। सेतुमार्गेण गमनागमनसुविधा पूर्णतया स्थगितमिति युक्रेनसेनया निगदितम्।