समुद्रसुरक्षायै प्राधान्यं दत्वा 'क्वाड्' सम्मेलनम्।
मनिला> भारत-पसफिकमण्डले शान्तिं सुरक्षां च दृढीकर्तुं तथा समुद्रसुरक्षा, कृत्रिमबुद्धिः, निर्णायकधातवः इत्यादीनां व्यवहारसहकारे प्राधान्यं कृत्वा च 'क्वाड्' संघटनस्य शिखरसम्मेलनं सम्पन्नम्। भारतम्, अमेरिका, जापानम्, आस्ट्रेलिया इत्येतेषां राष्ट्राणां सख्यसंघः अस्ति क्वाड् नाम।
सम्मेलनस्य अनुबन्धतया कृते वार्ताहरसम्मेलने नरेन्द्रमोदी बहुमान्यः तथा शक्तः प्रशासकः इति डोनाल्ड ट्रम्पः मोदिवर्यं प्रशशंस।