ऐ पि एल् क्रीडातः धोनी विरतः।
चेन्नई> चेन्नै सूपर् किङ्स् नामक ऐ पि एल् क्रिकट् क्रीडा संस्थायाः भूतपूर्वः नायकः महेन्द्र सिंह धोनी क्रीडातः विरतः। संघस्य उपदेशकरूपेण अनुवर्तिष्यते इति तेन प्रोक्तम्।२०२० तमे वर्षे अन्ताराष्ट्रियक्रिकट् क्रीडायाः सः विरत आसीत्।
