अमेरिक्कस्य कोविड् प्रत्यौषधस्य तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।
अमेरिक्कस्य कोविड् प्रत्यौषधस्य तृतीय श्रेणीपरीक्षणं ९४.५ % फलप्राप्तिः।
सौमित्र चाटर्जी कालयवनिकां प्राप्तः।
कोल्कत्ता> नटनोत्कृष्टतया भारतीयचलच्चित्रख्यातिम् अन्ताराष्ट्रस्तरं संवर्धमानेषु प्रमुखः वङ्गीयः नटः सौमित्र चाटर्जी [८५] दिवंगतः। गतदिने कोल्कत्तायां निजीयातुरालये आसीत्तस्यान्त्यम्। कोविड्बाधितः अासीत्। कोविडात् मुक्तिं प्राप्तः अपि तस्य स्वास्थ्यस्थितिः अशुभा अनुवर्तमाना आसीत्।
सत्यजितरायिवर्यस्य प्रियनटः सौमित्रः तस्य चलनचित्रेषु सर्वदा नायकस्थानमलङ्कुर्वति स्म। भारतस्य परमोन्नतचलच्चित्रपुरस्कारः दादा साहिब् फाल्के पुरस्कारः, फ्रान्स् राष्रस्य परमोन्नतनागरिकबहुमतिः 'लेज्यन् आफ् ओणर्', पद्मविभूषण्, वङ्गविभूषण् इत्यादिभिः बहुभिः पुरस्कारैः विभूषित आसीदयं वरिष्ठाभिनेता।
बिहारे नितीशकुमारस्य नेतृत्वे नूतनसर्वकारस्य शपथसमारोहः अद्य।
अनुस्यूततया चतुर्थवारमेव नितीशकुमारः मुख्यमन्त्रिपदं प्राप्नोति। सर्वकाररूपीकरणाय यत् न्यूनातिन्यूनम् अङ्गबलमपेक्षितं तदतिरिच्य त्रीणि स्थानान्येव एन् डि ए सख्येन प्राप्तानि। भाजपा दलात् तर् किषोरप्रसादः उपमुख्यमन्त्री भविष्यतीति कल्प्यते।
विश्वस्य बृहत्तमं वाणिज्यप्रतिज्ञापत्रम् हस्ताक्षरीकृतम्।
चीनः १५ एष्यापसफिक् राष्ट्राणि च सहकारिणः।
सैबर् सुरक्षाम् उपस्थापयतुं नूतननियमः ।
नवदिल्ली> व्याजसङ्केतम् उपयुज्य कियमाणं चौरादिकं रोद्धुं अन्तर्जालीयार्थिकचौर्यं निवारयितुं सुरक्षित-व्यवस्थायुक्तः सैबरसुरक्षा नियमनिर्माणं केन्द्रसर्वकारेण पर्यालोच्यते। एतदर्थम् राष्ट्रिय-सैबर् सेक्यूरिट्टी को-ओर्डिनेर्स् कार्यालयः कर्मपथे नियुक्तः अस्ति। डिसम्बर् मासे एव नयरूपरेखां प्रकाशयिष्यते।
बैडनः ३०६ ; ट्रम्पः २३२। प्रप्रथमं शासनपरिवर्तनं सूचयन् ट्रम्पः।
वाषिङ्टण्> अमेरिक्कायाः राष्ट्रपतिनिर्वाचने इतःपर्यन्तं पराभवमनङ्गीक्रियमाणात् डोणाल्ड् ट्रम्पात् इदंप्रथमतया शासनपरिवर्तनस्य सूचना आगता। 'वैट् हौस्' स्थाने वार्ताहरान् प्रति भाषमाणे सन्दर्भे आसीत् ट्रम्पस्य ईदृशं प्रतिकरणम्। "वर्तमानः सर्वकारः सम्पूर्णपिधानं न करिष्यति। किन्तु शासनपरिवर्तने किं भविष्यतीति न जानामि" एतान्यासन् ट्रम्पस्य वचांसि।
जोर्जियस्थानि १६ इलक्टरल् मतेषु प्राप्तेषु बैडनः स्वकीयमतानि ३०६ प्राप्तवान्। ट्रम्पस्य मतानि २३२ अभवन्।
पूर्ववृत्तम् अन्वतिष्टत्। अस्मिन् संवत्सरेऽपि भारत प्रधानमन्त्रिणः दीपावली सैनिकैः साकम्।
कोरोणानन्तर-रोगावस्था प्रधानावयवेभ्यः गुरुतरा भीषा - स्वास्थ्यानुसन्धायिनः।
फिलिपैन्स् राष्ट्रस्य सुरक्षायै भारतस्य ब्रह्मास्त्रम्।
विश्वस्य प्रथम श्रेणीस्थानां राष्ट्राणां पट्टिकायां भारतं च।
नवदिल्ली> भारतात् प्रथमतया ब्रह्मोस् अग्निसायकान् स्वायत्तीकृतं राष्ट्रं भविष्यति फिलिप्पैन्स्। आगामि संवत्सरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फिलिप्पैन्स् राष्ट्रपतिः रोड्रिगो डुट्टेर्टः च सन्धौ हस्ताक्षरं करिष्यतः। रष्य भारतं च संयुक्तरूपेण ब्रह्मोस् शस्त्रस्य निर्माणज्ञानं संगृहीतम्। इदं शस्त्रं भवति फिलिपैन्स् राष्ट्रेण गृह्यते। अनया भारतात् शस्त्राणि क्रीणीतानि प्रथमं पूर्वदक्षिणेष्यराष्ट्रं भवति फिलिप्पैन्स्।
कोविड् प्रत्यौषधं ९०% फलप्रदम् - यू एस् संस्था
पारिस्> कोविड् प्रत्यौषधं ९०% फलप्रदम् इति यू एस् राष्ट्रे विद्यमानया फारिस् नाम औषधनिर्माण संस्थया उक्तम्। जर्मनीय बयेण्टेक् औषध-निर्माण-संस्थायाः साह्येन आसीत् औषधनिर्माणम्। तृतीयश्रेणीपरीक्षणे एव औषधस्य फलप्राप्तिः प्रत्यभिज्ञाता इति ए एफ् पि वार्ता संस्थया आवेद्यते। मात्राद्वयस्य कृते अनुमत्यर्थं यू एस् औषधनियन्त्रणाधिकारिणां पुरतः आवेदनं निवेदितम् इति न्यूयोर्क् टैंस् पत्रिकया आवेदितमस्ति।
बैडनाय विश्वनेतॄणामाशंसाः ; अमेरिक्कस्य एकतां विभावयन् बैडनः।
वाषिङ्टण् > अमेरिक्कस्य नियुक्तराष्ट्रपतये जो बैडनाय विश्वनेतारः शुभकामनाः समर्पितवन्तः। आगोलप्रकरणेषु धार्मिकमूल्यानि लोकहितं च अग्रे संस्थाप्य प्रश्नपरिहाराय प्रयतितुं बैडनः प्रभवतु इति सन्देशेषु प्रशंसितश्च।
भारतस्य राष्ट्रपतिः रामनाथकोविन्दः, उपराष्ट्रपतिः एम् वेङ्कय्या नायिडुः, प्रधानमन्त्री नरेन्द्रमोदी च बैडनस्य कर्मकुशलतां लोकहितदर्शनं च प्रकीर्तितवन्तः।
पर्यावरणव्यतियानं,सुरक्षा , वाणिज्यमित्यादिविषयेषु सहवर्तित्वेन प्रवर्तनमिच्छन् ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः बैडनाय आशंसां प्रकाशितवान्। इरानराष्ट्रस्य राष्ट्रपतिः हस्सन् रूहानी स्वस्य आशंसासन्देशे , अमेरिक्कायाः आणवसन्धिं प्रत्यागन्तुमवसरः इति प्रतीक्षां प्रकाशितवान्।
फान्स् राष्ट्रपतिः इम्मानुवल् मक्रोणः , न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्दा आर्डेणः इत्यादयः बहवः लोकनेतारः बैडनाय शुभाशंसाः समार्पयन्।
तथा नियुक्तराष्ट्रुतिः जो बैडनः अमेरिक्कायां राज्यानाम् एकतामिच्छन् राष्ट्रं प्रति अभिसम्बुद्धिं कृतवान्। शत्रुतामीर्ष्यां च त्यक्त्वा राष्ट्रसमुन्नतये अग्रे गच्छामः इति डेलवेयरनामके स्थाने आयोजिते विजयाह्लादकार्यक्रमे सः प्रख्यापितवान्। नियुक्तेन प्रथममहिलोपराष्ट्रपतिना कमला हारिसेन सहैव बैडनः वेदिकां प्राप्तः।
९० होरायाः प्रयत्नं निष्फलम् - ५ वयस्क: नालीकूपे पतित्वा मृतवान्।
जो बैडन् अमेरिक्कस्य राष्ट्रपतिपदं प्राप्तवान्
वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिनिर्वाचने डेमोक्राट्टिक् दलस्य स्थानाशी जोबैडनः विजयं प्राप्तवान्। अमेरिकस्य ४६ तमः राष्ट्रपतिः भवति एषः। रिप्पब्लिक्कदलस्य स्थानाशिनं राष्ट्रपतिस्थानिनं डोणाल्ड् ट्रम्पं विजित्य भवति अस्य राष्ट्रपति-स्थानप्राप्तिः। उपराष्ट्रपतिस्थाने भारतवंशजा कमला हारिसः भविष्यति।
कोविड् प्रत्यौषधाय सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया - एयिम्स् (AIMS) निर्देशक:
नवदिल्ली> कोविड् प्रत्यौषधस्य उपलब्धये सामान्यजनाः २०२२ पर्यन्तं प्रतीक्षा करणीया इति एयिम्स् (AIMS) निर्देशकेन रणदीपगुलेरिय वर्येण उक्तम्। एकं कोविड् प्रत्यौषधं भारतराष्ट्रस्य विपण्याम् उपलब्धुम् एकसंवत्सरात् अधिकं कालम् आवश्यकम् इति च तेन उक्तम्। वाक्सिन् औषधेन कोविडं पूर्णतया मार्जयितुं न शक्यते इति तेन अभिप्रेतम्। सि एन् एन् न्यूस् १८ इत्यस्य प्रस्तुतौ असीत् तस्य अभिमतप्रकाशनम्।
केरले प्रादेशिकनिर्वाचनं प्रख्यापितम्।
व्यवहारनियमाः उपस्थापिताः।
अनन्तपुरी> मासैकस्य कालान्तरेण केरलराज्ये त्रिस्तरग्रामस्वराजनिर्वाचनस्य काहलः उद्घुष्टः। डिसम्बरमासस्य ८ , १० , १४ दिनाङ्केषु चरणत्रयैः निर्वाचनानि विधास्यन्ति। मतगणना १६ तमे भविष्यति। कोविड् नियन्त्रणदिशासूचकान् परिपाल्य एव निर्वाचनप्रक्रियाः सम्पत्स्यन्ते।
राज्यस्य निर्वाचनायोगेन वि भास्करेण गतदिने निर्वाचनप्रक्रियायाः मार्गनिर्देशाः पदक्षेपाश्च प्रख्यापिताः।
आगामिनिसंवत्सरे सम्पद्यमानस्य विधानसभानिर्वाचनस्य निकषोपल इतीदं निर्वाचनं परिगण्यते।