कोविड् - जागरणनिर्देशं विज्ञाप्य भारतसर्वकारः।
नवदिल्ली> चीने केषुचित् राष्ट्रान्तरेषु च कोविड्व्यापनं तीव्रमभवदित्यतः भारतेSपि सर्वकारेण जागरणनिर्देशः विधत्तः। प्रतिरोधप्रवर्तनानि शक्तं कर्तुं जनमेलनेषु मुखावरकम् अवश्यं कर्तुं च निर्दिष्टः। केन्द्रस्वास्थ्यमन्त्रिणा मनसुखमाण्डव्येन समायोजिते कोविडवलोकनोपवेशने आसन्निमे निर्देशाः।
तदनुसृत्य अन्ताराष्ट्रविमानपत्तनेषु यात्रिकेषु रोगपरिशोधना आरब्धा। देशे परिसूचितेषु कोविड्प्रकरणेषु अधिकाधिकं केरलं, कर्णाटकं, महाराष्ट्रं, तमिल्नाट्, तेलुङ्कानं राज्येभ्यः इति स्वास्थ्यमन्त्रिणा कथितम्। प्रतिवारं उपसहस्रमेव समीपमासेषु भारते कोविड्रोगिणां संख्या।
.jpg)



.jpg)
.jpg)

