बुल्बुल् चक्रवातः - अष्टौ जनाः मृताः।
कोल्कत्ता > बुल्बुल् चक्रवातस्याघाते कोल्कत्तमध्ये अष्टौ जनाः मृताः। बङ्गाल् सागरे आविर्भूतः चक्रवातः १२० कि.मि वेगेन तीरं प्राप्य बङ्गालस्य बङ्ग्लादेशस्य च तीरे महते नाशाय कारणमभवत्। एवमेव ओडीशमध्ये अपि बुल्बुल् चक्रवातः बाधितः वर्तते। अधुना एतेभ्यः प्रदेशेभ्यः २५ लक्षाधिकाः जनाः दुरिताश्वासकेन्द्रेषु वर्तन्ते।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, November 10, 2019
भीकराक्रमणः स्यात्, भारते पूर्वसूचना प्रसारिता।
नवदिल्ली> अयोध्या-विधिनिर्णयस्य पृष्टभूमौ राष्ट्रे दशदिनाभ्यन्तरे भीकराक्रमणं कर्तुं जेइष् ए मुहम्मद् सज्जतां करोति इत्यस्ति नूतनम् आवेदनम्। सैनिकीय-बैद्धिकदलं 'रो' इन्टलिजन्स् आयोगः इत्यादीनां विविधानां रहस्यान्वेषण-दलसंस्थानां पार्श्वतः आवेदनानि लब्धानि। रहस्यान्वेषणसंस्थाभ्यः पृथक् रूपेण कृतान्वेषणे लब्धानि इमानि आवेदनानि इति अतिगौरवम् आवहन्ति। आवेदनानि स्वीकृत्य भारतसर्वकारेण सुरक्षा निरीक्षणानि शक्तीकृतानिI
पलाण्डुमूल्यम्: लक्षं टण् पलाण्डुः समानेतुं केन्द्र-सर्वकारेण निर्णीतम्I
एस् एम् टि सि संस्थायै एव आनयनाय अनुज्ञा लब्धा। भारतराजधान्यां पलाण्डोः मूल्यम् शतमभवत्। अन्यत्र प्रदेशेषु मूल्यं ६०-८० इति क्रमेण भवतिI
Saturday, November 9, 2019
बुल्बुल् चक्रवातः कोल्कत्ततीरं प्रति।
नवदहली > बुल्बुल् चक्रवातः शक्तिं प्राप्य कोल्कत्ततीरं प्रापयति इति सूचना। अतिवृष्ट्या सह प्रतिघण्डं १२० कि.मी. वेगेन वातः भविष्यतीति केन्द्रपर्यावरणनिरीक्षणकेन्द्रस्य निर्देशः वर्तते। पश्चिमबङ्गाल् सर्वकारः जनान् प्रति जाग्रतायै निर्देशम् अयच्छत्। कोल्कत्तव्योमयानकेन्द्रं रविवासरे षट्वादनपर्यन्तं न प्रवर्तते इति केन्द्राभ्यन्तरमन्त्रालयेन विज्ञापितं भवति।
संस्कृतभारत्याः प्रथम विश्वसम्मेलनं समारब्धम्।
नवदिल्ली> संस्कृतं जनभाषां कर्तुम् अश्रान्तपरिश्रमं कुर्वता विश्वस्तरीय संघटना भवति संस्कृतभारती। अस्याः प्रथम-विश्वसम्मेलनस्य उद्घाटनं केद्रीय चिकित्सा-स्वास्थ्य तथा विज्ञान-प्रौद्योगिकी मंत्री डॉ हर्षवर्धनः अकरोत्। मेलने समागतानां संस्कृतप्रेमिणां सङ्ख्यां दृष्ट्वा अत्भुतं तथा संतृप्तिः च अनुभवामि इति हर्षवर्धन-महोदयेन उक्तम् I विश्वस्य विभिन्नेभ्यः २१ राष्ट्रेभ्यः ७१ प्रतिनिधयः अत्र समागताः सन्ति। भारतस्य बहिः लक्षं जनाः संस्कृतं पठन्तः सन्ति। आभारतं १ कक्ष्यातः १२ कक्ष्या पर्यन्तं त्रिकोटि छात्राः संस्कृतं पठन्ति इति गणनां कृत्वा तेन उक्तम्। विश्वमहा मेलनस्य उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
संस्कृतलोके सुज्ञातः लोकसभा सदस्यः प्रतापचन्द्र षडङ्गी संस्कृतस्य महत्वं स्वात्मभाषणे सरलतया कृतं चI
अयोध्या राम-जन्मभूमि विषये भारतस्य सर्वोच्चन्यायालयस्य निर्णयः समागच्छति
सर्वेन्यायाधिपाः ऐककण्ठ्येन निर्णयः ख्यापयिष्यन्ति।
- भूमेः स्वामित्वविषये अधिकारं संबन्ध्य माहम्मदीय-षिया विभागस्य परिदेवनानि निष्कासितानि।
- केचन निर्मितेः उपरि आसीत् बाबर् माहम्मदीयालयः निर्मितः इति पुरावस्तु विभागस्य अनुसन्धानं न्यायालयेन अङ्गीकृतम्।
- अलहबाद् उच्चन्यायालयस्य प्राक्तननिर्णये त्रुटिरस्ति इति उच्चन्यायालयेन दृष्टम्।
- २.७७८ एक्कर् तर्कभूमिः हैन्दवानां दातव्यम्।
- माहम्मदीयानां कृते अयोध्यायां ५ एक्कर् भूमिः दातव्यम् इत्यपि आदिष्टम्।
- केन्द्रसर्वकारेण रामदेवालय-निर्माणाय दायित्वं स्वीकृत्य तदर्थं विशेषायोगं रूपीकत्य श्रीरामदेवालयस्य निर्माणदायित्वं तस्मै दातव्यम्I
जयपुरस्थ संस्कृत विद्यालये "व्याकरण सूत्र-अन्त्याक्षरी" प्रतियोगिता सम्पन्ना।
जयपुरम्> राजगंगा चेरिटेबल-ट्रस्ट एवं राजकीय-महाराज-वरिष्ठोपाध्याय- संस्कृत-विद्यालय: जयपुरम् इत्यनयो: संयुक्ततत्वावधाने व्याकरण सूत्र-अन्त्याक्षरी प्रतियोगिताया: नवम्बरमासस्य सप्त दिनांके समायोजिता। अस्यां प्रतियोगितायां जयपुरमण्डलस्य छात्रा: आगतवन्त:। मुख्यनिर्णायकत्वेन प्रो. श्री मोहनलालशर्ममहोदया: श्री ईश्वरप्रसादशर्ममहोदया: तथा श्री राजारामशर्ममहोदया: आसन्। कार्यक्रमे मञ्चासीन: मुख्यातिथिरूपेण श्री नाथूलाल सुमनमहोदया:, सारस्वतातिथिरूपेण न्यासस्य संरक्षिका प्रो. राजेश्वरी-भट्टमहोदया:, विशिष्ठातिथिरूपेण प्रो. श्रीकृष्णशर्ममहोदया:, द्वितीयविशिष्ठातिथिरूपेण दिव्य-ज्योति-ट्रस्ट द्वारा संचालित मन्दिरस्य महंत श्री लक्ष्मणदासशर्ममहोदया:, संस्थाप्राचार्य: डॉ. गजानन्दशर्ममहोदया: च आसन्।
कार्यक्रमे समागतानाम् अतिथिनां संस्थाप्राचार्य: डॉ. गजानन्दशर्ममहोदया: तथा विद्यालयस्य अध्यापका: स्वागतं कृतवन्त:। प्रतियोगितायां जयपुरस्य त्रयोदशविद्यालयस्य छात्रा: समागताः। प्रतियोगितायां प्रथमं पुरस्कारं ३१०० रुप्यात्मकम् राज. महा. वरि. उपा. सं. विद्यालय: जयपुरम् इत्यस्य बालिके (i) यशस्वी पारीक (ii) संजू पांचाल प्राप्तवत्यौ। द्वितीयं पुरस्कारं २१०० रुप्यात्मकम् राज. प्रवे. सं. विद्यालय: विमलपुरा फागी इत्यस्य बालिके (i) पूजा सैन (ii) सुमन सैन प्राप्तवत्यौ। तृतीयं पुरस्कारं ११०० रुप्यात्मकम् राज. वरि. उपा. सं. विद्यालय: कालच्या इत्यस्य छात्रौ (i) कमल कुमार सेपट (ii) प्रकाश सैनी प्राप्तवन्तौ। श्रीकृष्णशर्ममहोदय: उक्तवान् यत् आगामी वर्षे सम्पूर्ण अष्टाध्यायीशास्त्रं कंठस्थीकृत्वा प्रतियोगिता भवेत्। कार्यक्रमस्य अन्ते निर्णायकमण्डलस्य शॉल श्रीफलमाध्यमेन स्वागतं कृतम्। सर्वे जना: संस्कृतभाषाया: प्रचार-प्रसाराय संकल्पं कृतवन्त:।
वार्ताहर: - दीपक शास्त्री जयपुरम्
Friday, November 8, 2019
रामजन्मभूमि विषये भारतसर्वोच्चन्यायालयस्य निर्णयः - अयोध्यायां सुरक्षां निरीक्षणं च शक्तम् अकुरुताम्।
लख्नौ> रामजन्मभूमि याचिकायां भारतसर्वोच्चन्यायालयस्य निर्णयस्य आगमनवेलायाम् उत्तरप्रदेशे सर्वत्र सुरक्षां निरीक्षणं च शक्तम् अकरोत् I अयोध्ययां समीप प्रदेशेषु च अतीव सुरक्षा कारिता। प्रति दशपदेषु एकः आरक्षकः इति क्रमेण भवति सुरक्षा-विन्यासः। सि आर् पि एफ् विभागः च विन्यस्थाः। रक्त पीत हरित नील वर्णेषु मण्डलान् परिगणय्य भवति सुरक्षायाः आयोजनम्। ८०० विद्यालयाः सुरक्षासेनायाः शिबिराः अभवन्I चतुरधिकजनानां मेलनं दिसंबर् मासस्य अन्तिम दिनपर्यन्तं निवारितम्I जन-सञ्चार-माध्यमानि निरीक्षितानि वर्तन्ते|
Thursday, November 7, 2019
भारते भवननिर्माण-मण्डले २५०० कोटि रूप्यकाणां सङ्ग्रहः।
नवदिल्ली> भवननिर्माण-मण्डले २५०० कोटि रूप्यकाणां *विशेष-सङ्ग्रहः (special package) भारत-सर्वकारेण ख्यापितः। अपूर्णनिर्माणे वर्तितायाः आलय-परियोजनायाः निर्माणपूर्णतायै भवति अयं विशेष-सङ्ग्रहःI राष्ट्रस्य १६०० आलय-योजनायै इयं सङ्ग्रहः अत्युपकारकः भविष्यति इति केन्द्र-धनमन्त्रिण्या निर्माला-सीतारामेन उक्तम्।
Tuesday, November 5, 2019
टेन्निस् लोके राफेल् नदाल् पुनरपि प्रथमः।
माड्रिड् > मृत् मैतानस्य राजकुमारः इति विख्यातः राफेल् नदाल् ए टि पि स्थानपट्टिकायां प्रथमस्थानं प्रापयत्। पुरुषविभागे नोवाक् जोकोविच् द्वितीयस्थानं प्रति परिवर्तितः। २०१८ नवम्बर् मासात्परं नदालेन प्रथमस्थानं प्राप्तुं नैव शक्तम् आसीत्। इतःपूर्वं सप्तवारं तेन ए टि पि पट्टिकायां प्रथमस्थानं प्राप्तं वर्तते। तृतीयस्थाने स्विट्सर्लाण्टस्य रोजर् फेडरर् वर्तते।
ब्रसील्-अर्जन्टीनदलयोः सौहृदक्रीडा सौदिराष्ट्रे।
रियाद् > ब्रसील्-अर्जन्टीनदलयोः सौहृदक्रीडा सौदिराष्ट्रे नवम्बर् मासस्य १५ तमे दिनाङ्के सौदिराष्ट्रे भविष्यति। सौदि अरेब्यस्थे रियाद् किङ् सौद् क्रीडाङ्कणे निश्चितायां क्रीडायाम् अर्जन्टीनस्य कृते लयणल् मेसि क्रीडिष्यति। अर्जन्टीनस्य क्रीडासंघे मेसि, अग्यूरो च चितौ वर्तेते। मासत्रयस्य निरोधनात्परमेव मेसि अर्जन्टीनस्य संघे चितः वर्तते।
दूरवाणिसम्बन्धे प्रकाशने आशङ्कां प्रकाशयन् सर्वोच्चन्यायालयः।
नवदहली> राष्ट्रे अधुना स्वकीयत्वसंरक्षणमित्येतत् असाध्यं वा इति आशङ्कां प्रकाशयति सर्वोच्चन्यायालयः। छत्तीस्गड् सर्वकारेण ऐ पि एस् उद्योगिनः मुकेष् गुप्तस्य दूरवाणिरेखाः प्रकाशिता इति विषये समर्पितायाः याचिकायाः परिगणनावेलायां न्यायाधिपः अरुण् मिश्रः एव आशङ्कां प्राकटयत्। स्वकीयत्वं पौरस्य मौलिकः अधिकारः भवति इति न्यायालयेन निरीक्षितम्। जनातान्त्रिकराष्ट्रे सर्वकारः पौरस्य स्वकीयविषयेषु अकारणतया व्यवहरति इत्येतत् आशङ्कां जनयति इति न्यायाधिपेन अभिप्रेतम्।
Monday, November 4, 2019
चन्द्रयानम् -२ ओर्बिट्टर् चन्द्रबाह्यमण्डले आर्गोण् ४० प्रत्यभिज्ञातम्।
चन्द्रं प्रदक्षणं कृतवत् भारतस्य चन्द्रयानं द्वे इत्यस्य ओर्बिट्टर् चन्द्रबाह्यमण्डले आर्गोण् ४० इति मूलकं प्रत्यभिज्ञातम्। ओर्बिट्टर् मध्ये संस्थापितेन अन्तरिक्षसंरचना-व्यवच्छेदयन्त्रेण आसीत् प्रत्यभिज्ञानम्। चन्द्रोपरितलात् १०० किलोमीट्टर् दूरे आसीत् अनुसन्धानम्। उत्कृष्ट-वातकत्वेन सुज्ञातः आर्गोणस्य 'ऐसोटोप्' भवति आर्गोण् ४० [40Ar]। चन्द्रस्य बाह्यमण्डलस्य प्रधानांशः भवति ऐ. एस्. आर्.ओ. संस्थया उच्यते। पोट्टास्यं ४० इत्यस्य रेडियो आक्टीव् विच्छेदनेन आर्गोण् ४० जायते इति ऐ एस् आर् ओ संस्थया उक्तम्I चन्द्रं परितः विद्यमानः लघुतमः वातकस्तरः चन्द्रबाह्यमण्डलः इति कथ्यते वैज्ञानिकैः।
केरलेषु विद्यालयेषु कलाशालासु च विद्यालयीय- राजनैतिक-दलस्य प्रवर्तनानि सजीवं कर्तुं सर्वकारेण आलोच्यते। प्रक्रमान् विरुद्ध्य इ श्रीधरः।
तिरुवनन्तपुरम्> विद्यालयेषु कलाशालासु च विद्यालयीय- राजनैतिक-दलस्य प्रवर्तनानि सजीवं कर्तुम् उद्दिश्य केरल राज्यस्य वामपक्षीय-सर्वकारेण आलोच्यते। प्रक्रमान् विरुद्ध्य न्यायालये याचिकां समर्पयिष्यायामि इति दिल्ली मेट्रोरेल् संस्थायाः मुख्योपदेष्टा इ श्रीधरः अवदत्। विद्यालय-कलाशालातलयोः राजनैतिकदलानां प्रवर्तनाय अनुज्ञादानाय सूष्म-व्यवस्थापत्राय विगतमन्त्रिसभामेलने अङ्गीकारः प्रदत्तः आसीत्। शिक्षामण्डलेषु ईदृशरीत्या राजनैतिकदलानां प्रवर्तनाय क्रियमाणं नियमनिर्माणं विरुद्ध्य मम अध्यक्षतया विद्यमानया एफ् आर् एन् वि इति सङ्घटनया सर्वोच्चन्यायालये सार्वजनीनतात्पर्य-याचिका समर्पयिष्यते इति श्रीधरेणोक्तम्। ट्रिवान्ट्रं मानेज्मेन्ट् असोसियेषन् द्वारा आयोजिते संवादे भाषमाणः आसीत् एषः।
Sunday, November 3, 2019
चन्द्रयानम् २ दौत्यं न अवसितम्। भविष्यत्काले अन्यतमं मृदुलावतरणं भविष्यति इति के शिवमहोदयः।
नवदिल्ली> चन्द्रयानम् २ दौत्यं न अवसितम् इति ऐ एस् . आर् ओ अध्यक्षेण के शिवमहोदयेन उक्तम्l भविष्यत्काले अन्यतमं मृदुलावतरणं भविष्यति इति तेनोक्तम् दिल्लीस्थस्य ऐ ऐ टि इत्यस्य सुवर्ण-संवत्सर-समारोहानुबन्धतया भाषमाणः आसीत् सः। चन्द्रोपरितले मुदुलावतरणं कर्तुं अशक्तः चेदपि उपरितलस्य त्रिशतम् (३००) मीट्टर् समीपं यावत् विक्रं लान्टर् विना स्खालित्यं प्रवर्तितम् आसीत्। दोषान् परिहृत्य भविष्यत्दौत्ये वयं विजयिनः भविष्यामः इत्यपि तेनोक्तम्।
सौदिराष्ट्रे शैक्षिकमण्डले समग्रपरिवर्तनम्, वैदेशिकविश्वविद्यालयेभ्यः अनुमतिः।
रियाद्> शैक्षिकमण्डले कार्यक्षमतावर्धनाय समग्रपरिवर्तनं कर्तुं सौदिराष्ट्रस्य निर्णयः। तदर्थं राष्ट्रे वैदेशिक -विश्वविद्यालयानाम् अङ्गीकृतशाखाः समारब्धुं परिष्कृते शैक्षिकनियमे अनुमतिः दत्ता वर्तते। सौदिराजस्य आध्यक्ष्ये सम्पन्ने मन्त्रिसभामेलने परिष्कृतस्य शैक्षिकनयस्य अङ्गीकारः जातः। नूतननियमानुसारं सौदिराष्ट्रे उन्नतशिक्षामण्डले प्रवर्तयितुं वैदेशिक-विश्वविद्यालयेभ्यः अवसरः लब्धः भवतीति शिक्षामन्त्री हमद् अल् शैख् अवदत्।
Saturday, November 2, 2019
मण्डलीय-समग्रार्थिक -सख्यरूपीकरण-मेलने (आर् सि इ पि) भागं कर्तुं नरेन्द्रमोदी बाङ्कोक् मध्ये।
नवदहली> सोमवासरे बाङ्कोक् मध्ये सम्पद्यमाने आर् सि इ पि रूपीकरणमेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अपि भागं करिष्यति। तदर्थं तेन अद्य गम्यते। व्यवस्थायाः अव्यक्ततां परिहार्य समग्रपरिशोधाय १६ राष्ट्रेभ्यः वाणिज्यमन्त्रीणां मेलनमपि वर्तते। तदनन्तरं परियोजनां सम्बन्ध्य प्रख्यापनं भविष्यति। एतन्मेलनात्परं मोदी १६-तमे आसियान् उन्नतमेलने तथा ईस्ट् एष्यमेलने च भागं करिष्यति।
भीकरवादं प्रति एकीभूय प्रवर्तिष्यते, भारतजर्मन्योः मध्ये १७ व्यवस्थाः सम्पन्नाः।
नवदहली> भीकरवादं प्रति भारतजर्मन्योः मध्ये उभयपक्ष-बहुमुखसहकरणं शक्तं करिष्यतीति जर्मनिदेशाधिकारी एय्ञ्चला मेर्कल्। दहल्यां भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना सह प्रवृत्ते संयुक्तमेलने एतत्सम्बन्ध्य विशदीकृतम्। द्वयोरपि राष्ट्रयोः मध्ये कृषिः, व्योमयानं, शिक्षा, शास्त्रसाङ्केतिकगवेषणं, आयुर्वेदः, योगः इत्यादिषु मण्डलेषु अक्कादमिक-सहकरणं शक्तं करिष्यति। प्रतिरोध-मण्डलस्थ-विषयाः अपि चर्चायाम् आसन्। जर्मनिदेशस्य साङ्केतिकनैपुणी आर्थिकशक्तिः च नवभारत-निर्माणे उपकरिष्यतीति नरेन्द्रमोदिना अभिप्रेतम्।
सौदिराष्ट्रे शैक्षिकमण्डले समग्रपरिवर्तनम्, वैदेशिक-विश्वविद्यालयेभ्यः अनुमतिः।
रियाद्> शैक्षिकमण्डले कार्यक्षमतावर्धनाय समग्रपरिवर्तनं कर्तुं सौदिराष्ट्रस्य निर्णयः। तदर्थं राष्ट्रे वैदेशिकविश्वविद्यालयानाम् अङ्गीकृतशाखाः आरम्भयितुं परिष्कृते शैक्षिकनियमे अनुमतिः दत्ता वर्तते। सौदिराजस्य अध्यक्षतायां सम्पन्ने मन्त्रिसभामेलने परिष्कृतस्य शैक्षिकनयस्य अङ्गीकारः जातः। नूतननियमानुसारं सौदिराष्ट्रे उन्नतशिक्षामण्डले प्रवर्तयितुं वैदेशिकविश्वविद्यालयेभ्यः अवसरः लब्धः भवतीति शिक्षामन्त्री हमद् अल् शैख् अवदत्।
Friday, November 1, 2019
संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्
| नमांसि, स्वीकृतस्य लक्ष्यस्य पूर्त्यर्थं,सातत्येन परिश्रमाय च ध्येयबद्धता अनिवार्या। सा बद्धता न व्यक्त्यै समर्पिता भवेत्, न च स्थानाय समर्पिता भवेत्, न वा कार्यविशेषाय समर्पिता। बद्धता ध्येयनिष्ठा, संस्कृतनिष्ठा च भवेत्। संस्कृतसेवायै बद्धता, समाजसंस्कृतिधर्माणां संरक्षणाय संवर्धनाय च या बद्धता, सा समयसीमायुक्ता न। सा तु जीवनस्य प्रतिबद्धता। मित्राणि, वयं संस्कृतध्येयबद्धा: भवेम। संस्कृतम् एव परम् आराध्यं, संस्कृतमेव पठिष्यामि, संस्कृतमेव सेविष्ये च, संस्कृतेन एव पाठनं करोमि, संस्कृतकार्येण एव समाधानं, संस्कृताय जीवनं, संस्कृतादृते नान्यत् किमपि इष्टतमं, संस्कृतसंबद्धं सर्वम् अपि मदीयं, मम अात्यन्तिकं प्रियं च, संस्कृते एव मम आत्यन्तिकी श्रद्धा। एवं प्रकारेण चिन्तनीयम्। मित्राणि, वयं संस्कृतसर्वस्वा: भवेम। स्वीयं जीवनं सार्थकं कर्तुम् अस्माभि: जीवने उदात्तं, लोकोपकारकं, महत्तरं च किञ्चन लक्ष्यं स्वीकरणीयम्। तस्मै लक्ष्याय, तस्मै जीवनध्येयाय च अस्माकं महत्तमा प्रतिबद्धता स्यात्, यथा कथ्यते- 'देहं वा पातयेयं, ध्येयं वा साधयेयम्' इति। संस्कृतप्राणा: वयं संस्कृतेन बद्धा: , संस्कृतकार्येण बद्धा: च। वयं संस्कृतकार्यार्थं बद्धकटय:। संस्कृतेन सम्भाषणाय बद्धवचना:। मित्राणि, वयम् एवं चिन्तयाम: जयतु संस्कृतं जयतु भारतम् । |
संस्कृत-जयघोषा: १. जयतु संस्कृतम् - जयतु भारतम्। २. श्रावणी पूर्णिमा - संस्कृत दिवसः। ३. बिना संस्कृतं - नैव संस्कृतिः। ४. संस्कृतभारतं - समर्थ भारतम्। ५. भारतस्य भाषा - संस्कृत भाषा। ६. समाजस्य हितम् - संस्कृते निहितम्। ७. एकं लक्ष्यम् एका आशा -जनजनभाषा संस्कृतभाषा। ८. संस्कृतेन संभाषणं कुरु - जीवनस्य परिवर्तनं कुरु। ९. मम देशो भारतम् - मम भाषा संस्कृतम्। १०. संस्कृतिः - संस्कृताश्रिता। ११. संस्कृतम् - संस्कृते: मूलम्। १२. भारतस्य प्रतिष्ठे द्वे - संस्कृतं संस्कृतिस्तथा। १३. भारतस्य रक्षणाय - बद्ध परिकरा वयम्। १४. पठामि संस्कृतं नित्यं - वदामि संस्कृतं सदा। १५. अमृतवाणी संस्कृतभाषा - नैव क्लिष्टा न च कठिना। १६. ग्रामे ग्रामे संस्कृत भाषा- नगरे नगरे संस्कृत भाषा। १७. ग्रामे ग्रामे नगरे नगरे - विलसतु संस्कृतवाणी। १८. विजयतां विजयतां - संस्कृतं विजयताम्। १९. यदि कल्याणमिहन्ते - संस्कृतम् अध्यताम्। २०. पठतु संस्कृतं - वदतु संस्कृतम्। |
रेवतीभट्टस्थानम् नवंबर मासस्य दशमाद्दिनाङ्कात्प्रभृति
महितसौम्योदारायाः सनातनमानवसंस्कृतेराधाराशिलेव वर्तते ऋषिसंस्थापिता वैदिकपरम्परा। केरलेष्वनादिकालादेव सम्प्रवृत्य विचरन्त्याः तस्याः परम्परायाः प्रमुखं राजनैतिकविधानमासीद् रेवतीभट्टस्थानम् (रेवति पट्टत्तानमिति भाषायाम्) इत्यादि सुविदितमेव। व्याकरणमीमांसावेदान्तेषु त्रिषु शास्त्रेषु उच्चस्तरीया एव विद्वांसः कार्यक्रमेऽस्मिन् पुरस्कृत्य सम्मानितवन्तः। पूर्वाचारैः तत्पुनरुत्थाप्य समायोजयति कोष़िक्कोटु नगरे अस्मिन् नवम्बर् मासस्य दशमाद्दिनाङ्कात्प्रभृति इति महत्प्रमोदाय सूचना प्राप्यते। डॉ. के एम् जातवेदन् नम्पूतिरि, श्रीमान् कोतमङ्गलं वासुदेवन् नम्पूतिरि इत्येतयोः पद-क्रम-रथा-जडापाठम् ऋग्वेदे, वेदत्रये मुऱजपं च भविष्यतः। वेदान्तमधिकृत्य डॉ. श्रीजित् डी जी, आचार्य आनन्दराज् जी इत्येतयोर्वाक्यार्थश्च विधीयते। डॉ. एम् लक्ष्मीकुमारी महोदयायै मनोरमत्तम्पुराट्टी पुरस्कारं समर्पयिष्यति। रेवतिपट्टत्तानसमित्या सम्पाद्यमानस्यास्य कार्यक्रमस्य रक्षाधिकारित्वं वहति कोष़िक्कोटु सामूतिरिराजा महामहिमश्री के सी उण्णियनुजन् राजा।
वियन्ना व्यवस्थायाः लङ्घनम् - पाकिस्थानं विरुद्ध्य अन्ताराष्ट्रन्यायालयः।
वियन्न> कुल्भूषण् जादव् व्यवहारे पाकिस्थानेन वियन्ना व्यवस्था लङ्घिता इति अन्तारा-ष्ट्रन्यायालयस्य अवलोकनम्। अवलोकनमिदम् ऐक्यराष्ट्रसभां पुरतः अन्ताराष्ट्र-न्यायालयस्य अध्यक्षेण न्यायाधिपेन अब्दुल्खावि अहम्मद् यूसफेन समर्पितम्। भारत-पाकिस्थानयोः मध्ये वर्तमानानां समस्यानां न्यूनीकरणं लक्ष्यीकृत्यैव न्यायालयेन अवलोकनस्य प्रसिद्धीकरणं कृतं वर्तते। कुल्भूषण् जादवः निरपराधी भवतीति गतजूलैमासे अन्ताराष्ट्रन्यायालयेन प्रख्यापितमासीत्। एवमेव कुल्भूषणाय पाकिस्थानेन प्रख्यापितस्य वधात्मकदण्डनस्य असाधुत्वं कृत्वा पुनर्विचारोऽपि न्यायालयेन सूचितः आसीत्। तदर्थं तस्मै नयतन्त्रसाह्यं पाकिस्थानेन देयमित्यपि न्यायालयेन सूचितं च। किन्तु मासत्रयानन्तरमपि एतत्सम्बन्ध्य पाकिस्थानपक्षतः अनुकूलनिर्णयः कोऽपि नागतः इति न्यायालयेन अवलोकने सूचितम्। अन्ताराष्ट्र-न्यायालयस्य एतदवलोकनं विषयेऽस्मिन् भारताय गुणप्रदं भवति।
Thursday, October 31, 2019
आरबसागरे महान् चक्रवातः, 'महा'; केरले अतिजाग्रतानिर्देशः।
अनन्तपुरी > आरबसमुद्रे नूतनः महान् चक्रवातः जायमानः अस्तीति पर्यावरणविभागः। अनन्तपुरीतः २२० कि मी दूरे जातः न्यूनमर्दः अद्य अतितीव्रन्यूनमर्दः भूत्वा लक्षद्वीपं प्रविश्य मध्यपूर्वारबसमुद्रे चक्रवातरूपेण परिणमिष्यते।
ओमानराष्ट्रेण 'महा' इति कृतनामधेयस्य अस्य चक्रवातस्य सञ्चारपथे केरलं नागच्छति तथापि तीरमण्डलेषु अतिशक्ताय वातप्रवाहाय साध्यता अस्ति। अतः मत्स्यबन्धनाय पूर्णनिरोधः प्रख्यापितः। मत्स्यबन्धनाय समुद्रं गताः धीवराः प्रत्यागमनाय आदिष्टाः।
५ जनपदेषु अतितीव्रा वर्षा
केरलेषु आगामिनिदिनेषु अतिशक्तायाः वर्षायाः साध्यता अस्ति। एरणाकुलं, तृशूर्, मलप्पुरं, कोष़िक्कोड्, इटुक्की जनपदेषु अतिजाग्रता [ओरञ्च्] उद्घुष्टा।
Subscribe to:
Comments (Atom)











