OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 12, 2026

 दिल्ली-मुम्बई शीघ्रमार्गे व्याघ्रसंरक्षितवनस्य अधः भारतस्य प्रथमः अष्टवीथि-सुरंगमार्गः उद्घाटनाय सज्जः।

 
प्रतीकात्मकं चित्रम्)

       दिल्ली-मुम्बई शीघ्रमार्गस्य (Expressway) निर्माणं प्रायेण पूर्णतां गच्छति। राजस्थानस्य कोटा नगरस्य समीपे निर्मितः 4.9 किलोमीटर् दीर्घः सुरंगमार्गः (Tunnel) जूण् मासस्य विंशति दिनाङ्कात् (20 जूण्) परम् उद्घाटितः भविष्यति इति 'दि न्यू इण्डियन् एक्सप्रेस्' पत्रिकाद्वारा प्रकाशितं वर्तते।

    पारिस्थितिकदृष्ट्या अत्यन्तं संवेदनशीलस्य 'मुकुन्दरा हिल्स् व्याघ्रसंरक्षितवनस्य' अधः निर्मितः अयम् सुरंगमार्गः भारतस्य प्रथमः अष्टवीथिपन्थाः (8-lane) इति मन्यते। अयम् सुरंगमार्गः 95,000 कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य 1,386 किलोमीटर् दीर्घस्य दिल्ली-मुम्बई शीघ्रमार्गस्य एकः मुख्यः भागः अस्ति। अस्मिन् मार्गे पूर्णरूपेण चालिते सति, दिल्ली-मुम्बई नगरयोः मध्ये यात्रासमयः प्रायेण 12 होराः भविष्यति, यः इतः पूर्वं 24 होराभ्यः (Hours) अधिकः आसीत्।

(Word Meanings)

शीघ्रमार्गः Expressway, सुरंगमार्गः Tunnel , व्याघ्रसंरक्षितवनम् Tiger Reserve , अष्टवीथिः Eight-lane, होराः  Hours

Latest news