त्रिभाषानयः।
केन्द्रीयविद्यालयेषु संस्कृतम् अनिवार्यम्।
नवदिल्ली> केन्द्रीयविद्यालयेषु षष्ठी नवमी कक्ष्यासु तृतीयभाषारूपेण संस्कृतशिक्षणम् अनिवार्यं कृतम्। त्रिभाषानयस्य उपस्थापनस्य अंशतया अस्ति केन्द्रप्रशासनस्य अयं प्रक्रमः। एतत्संबद्धं विज्ञप्तिप्रचारपत्रं [circular] बहिरागतम्।
प्रादेशिकभाषाः शिक्षणार्थं सन्त्यपि सर्वेषु केन्द्रीयविद्यालयेषु संस्कृतभाषा अपि भवितव्या। यदा रक्षितानां सेवासम्बद्धं स्थानसंक्रमणं [transfer] भविष्यति तदा छात्राणां संस्कृतशिक्षणे भङ्गं न भवेत् इत्यत एव नूतनादेशः इति अधिकारिभिरुक्तम्।
सि बी एस् ई विद्यालयेषु तृतीयभाषारूपेण संस्कृतम् इतरा कापि लभ्या प्रादेशिकभाषा वा चयनं कर्तुं शक्यते।
Latest newsLatest news