OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 14, 2026

 केरलम्। 

के एस् आर् टि सि बस् यानेषु श्वः आरभ्य महिलानां निश्शुल्कयात्रा।

अनन्तपुरी> केरले के एस् आर् टि सि संस्थायाः साधारणबस् यानेषु [Ordinary bus] सोमवासरादारभ्य महिलानां निश्शुल्कयात्रा विहिता। निर्वाचनकाले एव  यू डि एफ् सख्येन वाग्दत्ता  आसीत् 'प्रियदर्शिनी निश्शुल्कयात्रा' इति कृतनामधेया इयं परियोजना। भिन्नलिंगीयाः अपि  एतदानुकूल्यं  लभन्ते। 

  वयः, आयः इत्यादीन् मानदण्डान् विना एव निश्शुल्कयात्रा अनुमोदते। प्रथमचरणेन सामान्यबस् यानेषु इयं परियोजना विधास्यते। के एस् आर् टि सी संस्थायाः आर्थिकोत्कर्षमनुसृत्य द्वितीयचरणमारप्स्यते इति मुख्यमन्त्रिणा वि डि सतीशेन प्रोक्तम्। 

  श्वः प्रभाते ८. ३० वादने अनन्तपुर्यां मुख्यमन्त्री परियोजनामिमाम् उद्घाटयिष्यति। राज्यमशेषतः २९२७ साधारणसेवापरिसंख्याः [schedule] सन्ति।