OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 31, 2019

आरबसागरे महान् चक्रवातः, 'महा'; केरले अतिजाग्रतानिर्देशः। 
अनन्तपुरी >  आरबसमुद्रे नूतनः महान् चक्रवातः जायमानः अस्तीति पर्यावरणविभागः। अनन्तपुरीतः २२० कि मी दूरे जातः न्यूनमर्दः अद्य अतितीव्रन्यूनमर्दः भूत्वा लक्षद्वीपं प्रविश्य मध्यपूर्वारबसमुद्रे चक्रवातरूपेण परिणमिष्यते। 
 ओमानराष्ट्रेण 'महा' इति कृतनामधेयस्य  अस्य चक्रवातस्य सञ्चारपथे केरलं नागच्छति तथापि तीरमण्डलेषु अतिशक्ताय वातप्रवाहाय साध्यता अस्ति। अतः मत्स्यबन्धनाय पूर्णनिरोधः प्रख्यापितः। मत्स्यबन्धनाय समुद्रं गताः धीवराः प्रत्यागमनाय आदिष्टाः। 
५ जनपदेषु अतितीव्रा वर्षा
  केरलेषु आगामिनिदिनेषु अतिशक्तायाः वर्षायाः साध्यता अस्ति। एरणाकुलं, तृशूर्, मलप्पुरं, कोष़िक्कोड्, इटुक्की जनपदेषु अतिजाग्रता [ओरञ्च्] उद्घुष्टा।