OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 29, 2020

चन्द्रोपरितले जलसान्निध्यं - 'नास'।


   नास संस्थायाः स्टोस्फेरिक् ओब्सर्वेट्टरि फोर् इन्फ्रारेड् (SOFIA) इति निरीक्षणसुविधया चन्द्रो परितले जलस्य सन्निधिः प्रत्यभिज्ञातम्। चन्द्रस्य क्लावियस् गर्ते एव जलसान्निध्यम्। गर्तः तु भूमेः सम्मुखभागे एव वर्तते। चन्द्रस्य दक्षिणार्धगोले विद्यमानेषु बृहत्गर्तेषु अन्यतमः भवति क्लावियस्। चन्द्रोपरितले ४०,००० चतुरश्र किलोमीट्टर् विस्तृतप्रदेशे हिमावस्थायां जलं स्यात् इति कोलराडो विश्वविद्यालयस्य पोल् हेयिनस्य नेतृत्वे विद्यमानेन अनुसन्धानगणेन अभिप्रेतम्।

Wednesday, October 28, 2020

 चीनं विरुध्य सोदरभावेन अमेरिका च। 

'बेक्का' सन्धौ हस्ताक्षरं कृत्वा भारतम् अमेरिका च। 

    नवदिल्ली> राष्ट्रसुरक्षामण्डले परस्परसाहाय्यं सहयोगं चाभिलक्ष्य भारतामेरिक्कयोर्मध्ये बेक्कानामकः सहयोगसमयः हस्ताक्षरीकृतः। चीनभारतसंघर्षे विद्यमाने अमेरिकया सह भारतस्यायं समयः उभयोरपि राष्ट्रयोः चीनाविरुद्धतायै सहायकं भवतीति केन्द्रसर्वकारेण सूच्यते। 

  प्रमुखाः सैनिक-साङ्केतिकविद्याः , व्योमभौमदेशालेख्यपत्राणि , सैनिकोपग्रहेभ्यः प्रसार्यमाणाः सूक्ष्मवृत्तान्तांश्च अन्योन्योपकारकरीत्या विनिमयं कर्तुमुद्दिष्टो भवति 'बेक्का' [Basic Exchange & Cooperation Agreement] नामकमयं सन्धिः।

 हिस्बुल् अध्यक्षमभिव्याप्य १८ पुरुषाः भीकरा इति प्रख्यापिताः। 

   नवदिल्ली> हिस्बुल् मुजाहिदीन् नामकातङ्कवादसंस्थायाः नेता सयिद् सलाहुदीनः तथा 'इन्ड्यन् मुजाहिदीन्' स्थापकौ 'भट्कल् सोदरौ' इत्येतान् अभिव्याप्य नानाभीकरसंस्थाप्रवर्तकाः १८ जनाः केन्द्रसर्वकारेण यू ए पि ए नीत्यनुसारं भीकराः इति प्रख्यापिताः। हिस्बुल् संघटनं विना लष्कर् ई तोय्बा, जय्षे मुहम्मद्, इन्ड्यन् मुजाहिदीन्, दावूद् इब्राहिं संघः इत्येतेषां संघटनानां प्रवर्तकाः एव भीकरावल्यामन्तर्भूताः।

Tuesday, October 27, 2020

 शान्तिकालप्रवर्त्तनानि स्थगयितुं भारतसेना आदिष्टा।

    नवदिल्ली> चीन-भारतयोः सीमनि नियन्त्रण-रेखायां चीनेन सैनिकाः विन्यस्थाः इति कारणेन भारतसैनिकेभ्यः जाग्रतानिर्देशः अदात्। शान्तिकालप्रवर्त्तनि स्थगयितुं सैनिकाध्यक्षेण बिपिन् रावतेन  भारतसेना आदिष्टा। भारतमहासमुद्रे चीनस्य युद्धनौकायाः विन्यासस्य अवलोकनाय अन्टमान-निकोबार द्वीपसमूहस्य 'संयुक्तकमान्ट्' विभागाय निर्देशः अदात्। 

 बिहारे विधानसभानिर्वाचनस्य प्रथमसोपानं श्वः। 

 


 पटना> बिहारस्य विधानसभानिर्वाचनस्य प्रथमसोपाने १६ जनपदानां ७१ मण्डलेषु बुधवासरे मतदानं भविष्यति। 

  १०६६ स्थानाशिनः स्पर्धावेदिकायां सन्ति। ७१ मण्डलेषु शब्दप्रचरणं ह्यः सायं समाप्तम्। 

  त्रिभिः सोपानैरेव बिहारे निर्वाचनं विधास्यति। द्वितीयसोपानं नवंबर् तृतीयदिनाङ्के तृतीयं सोपानं सप्तमदिनाङ्के च भविष्यति। दशमे मतगणना विधास्यति।

 आणवनिरोधनसन्धौ  जापानः विमुखतां प्राकटयत्। 

 टोकियो> आणवायुध- निरोधनाय  ऐक्यराष्ट्रसभायाः सन्धेः जपानेन मुखं परिवर्तितम्। अस्मिन् सन्धौ हस्ताक्षरं कर्तुं विप्रतिपत्तिरस्ति इति जपानस्य सचिवप्रमुखेन कट्स्तुनोबु काट्टो इत्याख्यान उक्तम्। आणवायुधरहितो विश्वः जापानस्य लक्ष्यम्। किन्तु ऐक्यराष्ट्रसभायाः सन्धिः आणवायुध-निर्माजनाय न पर्याप्तः इति तेन उक्तम्। विगते दिने ५० राष्ट्राणि अणवनिरोधन सन्धौ हस्ताक्षरं कर्तुं विमुखतां प्रदर्शितवन्तः सन्ति इति ऐक्यराष्ट्रसभया अवेदितम् आसीत्।  अमेरिका अपि हस्ताक्षरविमुखानां गणे अस्ति।

Sunday, October 25, 2020

 आगामिसंवत्सरे शतकोटिमात्राः कोविड्वाक्सिनः। 

    पूणे> कोविड्वाक्सिनौषधस्य १०० कोटिमात्राः आगामिसंवत्सरे सज्जीकरिष्यति। सिरम् इन्टिट्यूट् आफ् इन्डिया इत्यस्य अधिकारी अदार् पूनावाला इत्यसौ अभिमानं कृतवान्। वर्तमानं परीक्षणसोपानं प्रविष्टानां पञ्च वाक्सिनानां १०० कोटिसंख्याकाः मात्रा एव २०२० -२१ आर्थिकसंवत्सरे लभ्यं कर्तुमुद्दिष्टाः इति सः वार्ताहरान् प्रति उक्तवान्। 

  आस्ट्र सेनक्का नामिकया ब्रिटीशसंस्थया सह ओक्स् फेड् विश्वविद्यालयेन विकसितं 'कोविषील्ड्' इत्यौषधं विना 'कोवोवाक्स्', 'कोविवाक्स्', 'कोवि वाक्', 'एस् ऐ ऐ कोवाक्स्' इत्येतानि औषधानि संस्थया उत्पाद्यन्ते। सम्प्रति तृतीयसोपान-क्लिनिक्कल् परीक्षणेषु पुरोगम्यमाने 'कोविषील्ड् वाक्सिने' आरभ्य आगामिजनवरिमासात् त्रैमासिकं एकैकं वाक्सिनौषधं बहिर्गमयितुमेव संस्थया लक्ष्यीक्रियते।

Saturday, October 24, 2020

 यू एस् राष्ट्पतिनिर्वाचनं - अन्तिमसंवादः परिनिष्ठया समाप्तः। 

     वाषिङ्टण् > सीमालङ्घने स्वनग्राही निश्शब्दः भविष्यतीत्यादीनां  नियन्त्रणानां  गुणफलमभवत्। यू एस् राष्ट्रपतिनिर्वाचनात् पूर्वं प्रचलितायां राजनैतिकसंवादपरम्परायां अन्तिमसंवादस्य  समङ्गलपरिसमाप्तिः। गुरुवासरस्य निशीथिन्यां 'नाष्विल्' इत्यत्र सम्पन्ने संवादे 'रिप्पब्लिक्कन् पार्टी' स्थानाशी डोणाल्ड् ट्रम्पः 'डमोक्राटिक् पार्टी' स्थानाशी जो बैडन् च कोविड्, पर्यावरणव्यतियानं, वंशीयता इत्यादिषु प्रकरणेषु स्वकीयमतानि उपस्थापितवन्तौ। 

      सार्धहोराकालं दीर्घितः संवादः क्रिस्टिन् वेल्कर् नामिकया दृश्यमाध्यमप्रवर्तकया नियन्त्रितः। 'एन् बी सी न्यूस्' इत्यस्य लेखिका तथा अवतारिका च वेल्कल्   संवादनियन्त्रणविषये प्रशंसां प्राप्तवती।

Friday, October 23, 2020

 अफ्गानिस्थाने तालिबानस्य आक्रमणं - ३४ सैनिकाः हताः। 

   काबूल्> अफ्गानिस्थानस्य उत्तरप्रविश्यान्तर्भूते बहारक् जनपदे मङ्गलवासरस्य अर्धरात्रौ तालिबानेन कृते आक्रमणे प्रविश्यायाः सहारक्षकमुख्यः अभिव्याप्य ३४ सुरक्षासैनिकाः हताः। अनेके व्रणिताश्च। 

   तालिबानं विरुध्य  सैनिकपदक्षेपं लक्ष्यीकृत्य आगतां सुरक्षासेनामभिगम्य आसीदाक्रमणम्। १६ जनपदात्मिकायाः ठखरनामकप्रविश्यायाः ११ जनपदान्यपि तालिबानस्य नियन्त्रणे एव वर्तन्ते।

Thursday, October 22, 2020

 थार मरुस्थले १.७२ संवत्सरात् पूर्वम् अप्रत्यक्षा नदी सन्दृष्टा।

थार मरुः
    नवदिल्ली> राजस्थानराज्यस्य मध्य थार मरुस्थले १.७२ संवत्सरात् पूर्वम् नदी प्रवहिता आसीत् इति गवेषकाः। जर्मन् राष्ट्रस्य माक्स् प्लाङ्क् इन्स्टिट्यूट् फोर् सयन्स् ओफ् ह्यूमन् हिस्टरि तथा अण्णा विश्वविद्यालयः, ऐ एस् आर् कोल्कत्ता इत्यस्थानां गवेषकानाम् अध्ययनफलं भवति इदम्।  

    बिक्कानेर् समीपस्थाः नद्याः २०० किलो मीट्टर् दूरे एका नदी प्रवहिता आसीत् इति गवेषकाः अभिप्रेन्ति। अस्याः नद्याः साहाय्येन प्राचीन शिलायुग मनुष्याः कालं यापयन्तः। अनुसन्धानेन अधिकानि प्रमाणानि लप्स्यन्ते इति गवेषकः जिं बोब् ब्लिङ्क होण् इत्याख्यः गवेषकः अवदत्।

Wednesday, October 21, 2020

 चीनराष्ट्रतः ड्रम्पस्य वित्तलेखः अभिज्ञातः-न्यूयोर्क् टैंस् पत्रिकया आवेद्यते। 

 


 वाषिङ्टण्> यू एस्  राष्ट्रपतेः डोणाल्ड् ट्रम्पाय चीनराष्ट्रे वित्तलेखः अस्ति संवत्सराः यावत् तत्र करः दीयते इत्यस्ति आवेदनम्।  न्यूयोर्क् टैंस् पत्रिकया इदम् आवेदनं प्रकाशितम्। समापन्ने निर्वाचनस्य काले चीनबन्धः बहिरागतः इति ट्रम्पाय  लज्जाकरः विषयः अभवत्। ट्रम्प् इन्टर् नाषणल् होट्टल् संस्थायाः नियन्त्रणे भवति वित्तलेखः। ब्रिट्टणे अयरलान्टे च ट्रम्पाय वित्तलेखाः सन्ति।

 "कोविड्- अलम्भावः त्याज्यः" - प्रधानमन्त्री। 

   नवदिल्ली> कोविड्प्रतिरोधे जाग्रताप्रवर्तनेषु च अलंभावः त्याज्यः इति पूर्वसूचनां ददन् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। नवरात्रं, दस्रा, ईद्, दीपावली, गुरुनानाक् जन्मदिनम् इत्यादिषु उत्सवेषु आगम्यमानेषु राष्ट्रं प्रति कृते सन्देशे भाषमाणः आसीत् नरेन्द्रमोदी। 

  "पिधानमेव समाप्तं, विषाणुः अधुनैव वर्तते। अतः उत्सवकालेषु अतिजाग्रता आवश्यकी"- मोदिना उक्तम्। वाक्सिनस्य विकासः फलप्राप्तिमुपगच्छन्नस्ति। तावत्पर्यन्तं परिवारस्य सुरक्षायामपि वयमेकैकः जागरूकः भवेत् इति सः नागरिकान् उदबोधयत्।

Tuesday, October 20, 2020

 अयर्लन्ट् पुनरपि पिधास्यमानं प्रप्रथमं यूरोप् सुयुक्तराष्ट्रम्।

 


 डब्लिन्> कोविड् व्यापनस्य वर्धनस्य आधिक्येन अयर्लन्ट् मध्ये पुनरपि पिधानं समारब्धम्। द्वितीयवारं पिधानीकृतं प्रप्रथमं यूरोप् सुयुक्तराष्ट्रं भवति अयर्लन्ट्। षट् सप्ताहं यावत् पिधानं भविष्यति। प्रधानमन्त्रिणा मैकिल् मार्टिनेन वार्तामिमां राष्ट्रियप्रसारणद्वारा प्रसारिता। विद्यालयाः पिधानात् मुक्ताः सन्ति। 

 शीतीकृतानां भोज्यवस्तूनाम् संरक्षितावरणस्य उपरि कोरोणवैराणुः दृष्टः। 


    बीजिङ्> चीनराष्ट्रे सशक्तः कोराणा वैराणुः शीतीकृतानां भोज्यवस्तूनाम् संरक्षितावरणस्योपरि दृष्टः। नौकानिलयमण्डले क्विङ्डो इति स्थाने अवतारिते  शीतीकृतानां मत्स्यानां संरक्षितावरणस्य  उपरि एव वैराणोः सान्निध्यं दृष्टम्। घटना इयं जाग्रतावर्धानाय अस्मान् प्रेरयति। आवेदनमिदं चीनस्य वार्त संस्थया सिन्हुवया प्रकाशितम्।

Monday, October 19, 2020

 'सिरम् इन्स्टिट्यूट्' संस्थायाः कोविड्प्रत्यौषधं मार्च्मासे ।

   पूना> आगामिनि मार्च्मासे राष्ट्रे कोविड्रोगस्य प्रत्यौषधं लभ्यं भविष्यतीति प्रत्यौषधोद्पादकसंस्थया सिरम् इन्स्टिट्यूट्  इत्यस्य निदेशकप्रमुखेन सुरेष् जादवेन प्रोक्तम्। भारते सप्तकोटिसंख्याकाः मात्राः लप्स्यन्ते इति प्रतीक्षा अस्ति। 

  प्रत्यौषधपरीक्षणेषु द्वे तृतीयसोपानम्, एकं तु द्वितीयसोपानं च अतीतम्।

 भारते कोविड्व्यापनं न्यूनीभवति। 

नवदिल्ली>  केरलं, कर्णाटकं, राजस्थानं, छत्तीसगढ़, पश्चिमवंगराज्यानि विहाय भारते कोविड्रोगसंक्रमणं न्यूनं वर्तते इति केन्द्रस्वास्थ्यमन्त्रालयसमितिः। मासैकस्मात्पूर्वं राष्ट्रे कोविड्बाधितानां प्रतिदिनसंख्या दशलक्षात्परमासीत्। किन्तु गतद्वित्रेषु दिनेषु प्रतिदिनसंख्या अष्टलक्षादधः वर्तते। इदानीं रोगमुक्तिप्रतिशतता ८८.०३ अस्ति। 

  सप्ताहत्रयैः भारते प्रायशः सर्वेषुु राज्येषु कोविड्व्यापनं नियन्त्रणविधेयमभवदिति रोगप्रतिरोधप्रवर्तनानां एकोपनसमित्यध्यक्षः डो. वि को पोल् इत्यनेन निगदितम्। किन्तु शैत्यकाले राष्ट्रे रोगस्य द्वितीयव्यापनस्य साध्यता अस्तीति तेन सूचितम्। यूरोप्यन् राष्ट्रेषु शीतकाले रोगबाधा वर्धते स्म।

Sunday, October 18, 2020

 निर्वाचनस्य इतिहासे मतदानस्य उन्नततमानुपातेन  अमेरिका। 

     वाषिङ्टण्> राष्ट्रपतिनिर्वाचने उन्नततमानुपातेन अमेरिकस्य नूतनेतिहासः। कोटिद्वयाधिका: जनाः  मतदानं कृतवन्तः। 

 2016 तमवर्षस्य गणनानुसारं समस्तमतदानानां १६% भवति अस्मिन् वर्षस्य मतदानमानम्। कोविड् नियन्त्रणं मतदानाधिक्यस्य कारणत्वेन अवगम्यते।

 भारते कोविड्रोगिणः सम्प्रति अष्टलक्षादधः। प्रथमसोपाने ३० कोटिजनेभ्यः प्रत्यौषधं दीयते। 

   नवदिल्ली> सार्धमासानन्तरं राष्ट्रे कोविड्परिचर्यावर्तमानानां संख्या शनिवासरे अष्टलक्षादधः जातः [७,८५,८८६]। किन्तु अमितात्मविश्वासस्य कालः नागतः, सामाजिकदूरमभिव्याप्य सर्वाः रोगनिर्मार्जनप्रक्रियाः अतिजाग्रतया अनुवर्तव्याः इति प्रधानमन्त्री नरेन्द्रमोदी आह्वयत। कोविडवलोकनोपवेशने भाषमाणः आसीत्सः। 

  त्रिविधकोविड्प्रत्यौषधस्य साक्षात्कारः अन्तिमसोपानमाश्रियते इति प्रधानमन्त्रिणा उक्तम्। वितरणस्य प्रथमसोपाने ३० कोटिजनेभ्यः पूर्वतामानदण्डमनुसृत्य औषधं दास्यते।

 न्यूसिलान्ड् निर्वाचनम्- जसीन्दा आर्डेनाय महान् विजयः।

 


  ओक्लान्ड्> वंशीयतां विरुद्ध्य प्रवर्तितवती कोविड् महामारिं निगृह्य लोकश्रद्धां आकर्षितवती न्यूसिलन्ड् राष्ट्रस्य प्रधानमन्त्रिणी जसीन्दा आर्डेन् वर्या तद्राष्ट्रस्य सामान्यनिर्वाचने महान्तं विजयं प्राप्तवती। त्रिषु द्व्यंशायां मतगणनायां प्रतिशतं ४९.२ मतदानानि सम्प्राप्य आहत्य १२० आसनेषु ६४ स्थानानि जसीन्दायाः नेतृत्वे वर्तमानेन लेबर् पार्टीदलेन प्राप्तानि। 

  १९९६ तमात् परं प्रथममेव न्यूसिलान्डे कस्मिंश्चित् दलं सुव्यक्तं भूरिमतं प्राप्यमानं वर्तते। राष्ट्रे कोविड्महामारेः समूहव्यापनम् अपाकर्तुं साधितमिति जसीन्दासर्वकारस्य प्रमुखलाभरूपेण निर्वाचनप्रचारवेदिकासु अग्रस्थापितः विषयः आसीत्। पञ्चाशदधः वर्तते राष्टे$स्मिन् सम्प्रति कोविड्बाधितानां संख्या। ५० लक्षं जनसंख्यायुते अत्र केवलं २५ कोविड्मरणान्येव आवेदितानि।

 नीत ( NEET) परीक्षायां सम्पूर्णाङ्काः  (720/ 720) लब्ध्वा इतिहासं व्यरचयत् षोय्ब् इत्याख्यः। 


     जयपुरम्> भारतस्य वैद्यशिक्षाप्रवेशपरीक्षायां ७२० इति पूर्णाङ्कं लब्ध्वा प्रथमस्थानं प्राप्तवान् षोय्बः। भारतेतिहासे प्रप्रथमः भवति अयं विजयः। ओडीषायां   रूरकल देशीयः भवति एषः अष्टादशवयस्कः षोय्ब् अफ्ताब्। हृदय-शल्यचिकित्सायां कुशलः भवितव्यम् इति सः अभिलषति।  प्रतिदिनं 10 - 12 होरां यावत् स्वाध्यायं कृत्वा भवति तस्य विजयः। समाजे दरिद्राणां कृते जीवनं यापनीयम् इति सः चिन्तयति। सेप्तंबर् मासस्य 23 दिनाङ्के प्रचलितायां परीक्षायां  13,67,032 छात्राः तथा ओक्टोबर् मासे 14- दिनाङ्के 290 छात्राः च परीक्षां लिखितवन्तः आसन्। www.ntaresults.nic.in इति अन्तर्जालसूत्रे परिक्षाफलं लभते।

Saturday, October 17, 2020

 कोविड् वर्धनं- पञ्च राज्यानि प्रति केन्द्रसंघः। 

     नवदिल्ली> कोविड्-१९ बाधिताः  अनियन्त्रितेन वर्धते इत्यस्मात् ५ राज्यानि प्रति केन्द्रसर्वकारः उन्नततलं स्वास्थ्यसंघं नेष्यति। केरलं, कर्णाटकं, पश्चिमवंगः, राजस्थानं, छत्तीसगढ़् इत्येतानि तानि राज्यानि। रोगव्यापनं नियन्त्रयितुं मार्गनिर्देशं दातुमेव केन्द्रसंघस्य गमनम्।  राष्ट्रस्य अशेषेषु कोविड्बाधितेषु ४.३% रोगिणः [३,१७,९२९] केरलतः भवन्ति। राष्ट्रजनसंख्यायाः २.७६% एव केरलस्य जनसंख्या इत्यतः पूर्वोक्तः कोविड्संख्या  गौरवास्पदा भवति।

Friday, October 16, 2020

 संस्कृतसंभाषणवर्गाणां  सम्पूर्णसमारोहं महानटः पद्मश्री: जयरामः समुदघाटयत्।  


 कालटी> संस्कृतभारत्याः केरलविभागस्य विश्व-संस्कृत-प्रतिष्ठानस्य ५३ सम्भाषणवर्गाः सम्पूर्णाः। कार्यक्रमः महानटेन पद्मश्रीजयरामेण समुद्घाटितः। संस्कृतं प्रति तस्य आदरः तेन प्रकटित:। चेन्नैनगरे स्वगृहे उपविश्य सूम् (Zoom) सुविधाद्वारा आसीत् तस्य भाषणम्। संस्कृताध्ययनाय अवसरं लब्धवन्तः भाग्यशालिनः भवन्ति,  तान् अभिनन्दामि इत्युक्त्वा नूतनान् छात्रान् सः प्रचोदितवान्। 

   सन्दर्भे संस्कृतभारत्याः राज्याध्यक्षः  डो. पी. के. माधवन् वर्यः अध्यक्षः आसीत्। संस्कृतभारत्याः अखिलभारतीय- प्रशिक्षणप्रमुखेण डा. एच्. आर्. विश्वासमहोदयेन मुख्यसन्देशः प्रसारितः। 

प्रचलितेषु ५३ सम्भाषणवर्गेषु उपत्रिसहस्रं ( ३०००) जनाः (छात्राः अन्ये प्रौढाः च ) भागं स्वीकृतवन्तः। प्रतिमासं ५ दिनाङ्कादारभ्य १५ दिनाङ्कपर्यन्तं दशदिनसम्भाषणवर्गाः भविष्यन्ति। गृहे उपविश्य सकुटुम्बं कक्ष्यायाम् उपवेष्टुं सन्दर्भः अस्ति। ये भागं स्वीकर्तुम् इच्छन्ति तैः अधोदत्तबन्धनसूत्रद्वारा पञ्जीकरणं क्रियताम्।

Link - https://forms.gle/ubXQh8Dg3fM4Bsgt5

 कोविड्- द्वितीयप्रत्यौषधाय रूस् राष्ट्रस्य अङ्गीकारः। 

      मोस्को> कोविड् प्रतिरोधाय रूस् राष्ट्रेण द्वितीयं प्रत्यौषधं निष्पादितम्। नूतनप्रत्यौषधाय अङ्गीकारः दत्त इति राष्ट्रपतिना व्लादिमिर् पुतिनेन निगदितम्। द्वयमपि रूस् राष्ट्रे एव वितरिष्यतीति तेनोक्तम्। 

  'ए पि वाक् कोरोणा' इति कृतनामधेयमिदमौषधं सैबीरियस्थया 'वेक्टर् इन्स्टिट्यूट्' संस्थया एव विकसितम्। प्रत्यौषधस्य फलप्राप्तिः सुरक्षा इत्यादिकं निर्णेतुं दशसहस्रं जनेषु परीक्षणं नवम्बरे डिसम्बरे वा आरप्स्यते।  स्फुट्निक्-५ नामकं प्रथमं प्रत्यौषधं आगस्ट्मासे अङ्गीकारः प्राप्तः। ४०,००० सन्नद्धप्रवर्तकेषु एतस्य परीक्षणं संवृत्तमस्ति।

 जि एस् टि नष्टम् - सविशेषजालकद्वारा १.१लक्षंकोटि ऋणसुविधा। 

     नवदिल्ली> जि एस् टि इत्यस्मात् राज्यसर्वकारैः अभिमुखीक्रियमाणं नष्टं परिहर्तुं केन्द्रसर्वकारेण ऋणसुविधा विधत्ता। सविशेषजालकद्वारा १.१लक्षं कोटिरूप्यकाणां ऋणं समाहृत्य राज्यसर्वकारेभ्यो दातुं निर्णयः वित्तमन्त्रालयेण स्वीकृतः। जि एस् टि नष्टपरिहारविषये राज्यानाम् अनिष्टं दूरीकर्तुमेवायं निर्णयः। 

  राज्यानां कृते निश्चितस्य ऋणावधेः उपरि एव १.१लक्षं कोटि रूप्यकाणां ऋणं केन्द्रसर्वकारेण स्वीकरिष्यते। राज्यानामृणस्वीकारे वृद्धिबाध्यता भविष्यति। किन्तु ऋणस्वीकारः केन्द्रसर्वकारेण क्रियते तर्हि राज्यानां वृद्धिबाध्यतायाः मुक्तिः भविष्यतीति राज्यानां समाश्वासः।

Thursday, October 15, 2020

 १३ कोटि संवत्सरात् पुरातनस्य भीमसरटस्य  (दिनोसर्) पादमुद्रा पञ्चवर्षदेशीयेन बालकेन अभिज्ञातः। 


  प्रौढजनापेक्षया निरीक्षणकौशलविषये शिशवः पदमेकं पुरतो विद्यन्ते। परितः संवीक्ष्य  नूतनाः घटनाः तैः अवगम्यन्ते इति अत्भुतस्य विषयः। तादृशः एकः बालकः भवति याङ् स्वेर्वि। पञ्चवर्षदेशीयेन अनेन १३ कोटि संवत्सरात् पुरातनस्य भीमसरटस्य  (दिनोसर्) पादमुद्रा अभिज्ञाता। चीनराष्ट्रस्य दक्षिण-पश्चिम-भागेषु  विद्यमानेषु  शिलोच्चयेषु एकत्र एव पादमुद्रा दृष्टा। पितरौ सह विनोद यात्रया समागतः बालकेन याङ् स्वेर्विना शिलोच्चये मुद्रा दृष्ट्वा स्वा परीक्षणनिरीक्षणानन्तरं डयमानस्य भीमसरटस्य पादमुद्रा स्यात् इति  अभिप्रेतम्। शैशवादपि निरीक्षणोत्सुकस्य पुत्रस्य अभिमतस्य मूल्यं ज्ञातवन्तौ पितरौ चीनस्य भौमवैज्ञानिक-विश्वविद्यालयस्य प्रमुखाध्यापकं षिङ् लिटां प्रति घटनेऽयम् अवदताम्। सोऽपि पादमुद्रां निरीक्ष्य तेरोपोट्स् इति पक्षयुतस्य भीमसरटस्य पादचिह्नम् इति अवदत्। इदानीं अयं बालवैज्ञानिकस्य ख्यातिः आविश्वं प्रसरति।