वि आर् चौधरी वायुसेनाधिकारी।
नवदिल्ली> एयर् मार्षल् वि आर् चौधरी वायुसेनायाः नूतनाधिकारी भविष्यति। अस्मिन् मासे विरम्यमानस्य के एस् भदौरियस्य स्थाने एव अस्य नियुक्तिः। इदानीं सः उपाधिकारिपदे वर्तते।
कोविड्मृतानामाश्रितेभ्यः अर्धलक्षं रूप्यकाणां साहाय्यम्।
नवदिल्ली> कोविड्बाधया मृतानां बन्धुजनेभ्यः राज्यानि अर्धलक्षं रूप्यकाणां धनसाहाय्यं दास्यन्ति इति केन्द्रसर्वकारः सर्वोच्चन्यायालयं न्यवेदयत्।
राज्यानां दुरन्तनिवारणनिधेः एव धनराशिदानम्। जनपदप्रशासनेन दुरन्तनिवारणसंस्थया वा साहाय्यवितरणं सम्पत्स्यते इति केन्द्रसर्वकारस्य सत्यशपथपत्रे स्पष्टीकृतम्।
अमेरिक्कासन्दर्शनाय भारतस्य प्रधानमन्त्री नरेन्द्र मोदी प्रस्थितः।
यात्रा पाकिस्थानस्य व्योममार्गेण भवति।
नवदिल्ली> भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः अमेरिक्कासन्दर्शनाय पाकिस्थानेन स्वव्योममार्गेण गन्तुं अनुमतिः प्रदत्ता। सुरक्षाकारणेन अफ्गानस्य व्योममार्गं विहाय पाकिस्थानस्य व्योममार्गेण अमेरिक्कां गन्तुमेव पाकिस्थानं प्रति भारतेन अनुमतिः अभ्यर्थिता। भारतस्य अभ्यर्थनां अनुसृत्य अनुमतिः प्रदत्ता इति उन्नतसर्वकारवृन्दम् उद्धृत्य वार्ता विभागेन प्रतिवेदितम्।
भारतप्रधानमन्त्री अद्य यू एस् प्रतिष्ठते।
नवदिल्ली> राष्ट्रसुरक्षा, आतङ्कवादः, तालिबानसर्वकारः इत्यादिविषयेषु जो बैडेन सह चर्चितुं यू एन् सामान्यसभाम् अभिसम्बोधयितुं च भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अद्य अमेरिक्कां गच्छति। अमेरिक्कायाः राष्ट्रपतिना जो बैडेन सह मोदिनः साक्षाद प्रस्तुतिः शुक्रवासरे भविष्यति।
भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने अमेरिक्कां सम्प्राप्तवान्। वाणिज्य-निक्षेप- प्रतिरोधादयः विषयाः अपि अभिमुखेषु चर्चिष्यन्ते इति विदेशकार्यसचिवः हर्षवर्धन श्रृङ्लः वार्ताहरसम्मेलने निगदितवान्। वाषिङ्टणे बैडनं प्रति चर्चायाः अनन्तरं 'क्वाड्' राष्ट्रनेतृभिः सह चर्चिष्यन्ते।
जम्मूकश्मीरे सैनिकानाम् उदग्रगानं भग्नमभवत्।
प्रतिकूलं वातावरणमेव अपघातस्य कारणम्।
चाटुश्लोकस्पर्धा-विजयी- अभिषेक मुखार्जी, पश्चिमबङ्ग
![]() |
| अभिषेक मुखार्जी |
चाटुश्लोकस्य उत्तरम्
वयं याचकेभ्यो धनं रामः क्रियापदं रामः रा दाने अदादि प्रकरणे परस्मैपदी लट् उत्तमपुरुष बहुवचनं,कर्तृपदं वयम्।
पश्चिमबङ्गराज्यान्तर्गतो जयरामबाटी इति ग्राम् एव मम जन्मस्थानम्। तिरुपतिस्थे राष्ट्रियसंस्कृतविश्वविद्यालये विद्यावारिधिच्छात्रोहम्। अपि च संस्कृतसम्वर्धनप्रतिष्ठाने वरिष्ठशोधच्छात्ररूपेण इदानीमस्मि।
सम्प्रतिवार्तापत्रिकातः एकोनविंशे दिनांके प्राप्तप्रहेलिकोहं ज्ञानज्येष्ठवयःकनिष्ठस्य सुकान्ताभिधेयानुजस्य साहाय्यमङ्गीकृत्यास्या उत्तरं प्रेषितवान्। आदौ सदुत्तरं मयैव समर्पितमिति हेतोर्महोदयैः संसूचितोहं यत् निःशुल्केन प्रतिकृतिरिति चलच्चित्रस्य दर्शनार्हता प्राप्तेति।
अन्तर्जालादिसमस्यास्वपि चलच्चित्रस्य महता गौरवेण तास्समस्या नानुभूता एव।
अपरिचिते संशय इति गृहस्थानां नैसर्गिकः स्वभावः। किन्तु तत्संशयादिप्रतिकूलतामतिक्रम्य परोपकारिसरलमनसा गृहजनानां मनोगतस्य संशयस्य पारं गत्वा तेषामुपरि कथं विजयप्राप्तिः सम्भवेदित्यस्मिन् चलच्चित्रे दर्शितमस्ति। अपि च जनसम्मर्द्दराहित्यम्, ग्रामस्य नैसर्गिकी स्निग्धता ग्रामवासिनां नैसर्गिकं सारल्यञ्च सहृदयदर्शकान् नितरां मुह्यन्ति। चलच्चित्रे विद्यमाना न्यायालयीया विचारव्यवस्था भारतीयन्यायालयेषु जनानां विश्वासं प्रतिष्ठापयति। चलच्चित्रस्य आमूलाग्रं विचार्य वक्तुं शक्यते यदेतादृशमनवद्यं सर्वतोमुखि इव इतोपि नैकानि संस्कृतचलच्चित्राणि निर्मितानि भवन्ति।चलनचित्रकारः डाॅ. निधीशगोपिमहोदयम् अभिनन्दामि। एतादृशकार्यक्रमस्य कृते सम्प्रतिवार्तापत्रिकायै मम हार्द्दं कार्तज्ञ्यम् ।
Pratikriti https://www.firstshows.com/movie/pratikriti |
उल्कापतनेन भीमगोधिकासु नामावशेषासु जातासु भूमुखे भुजङ्गानां शुभकालः
भूतलात् उल्कापतनेन भीमगोधिकासु (Dinosaur) नामावशेषासु जातासु भुजङ्गाः अधुना दृश्यमानरीतिषु परिवर्तितः इति अध्ययनानि सूचयन्ति। भूविवरे निलीय तथा भक्षणं विना बिले दीर्घकालम् उषित्वा च उल्कापतनानन्तरलोके अतिजीवनाय भुजङ्गमाः शक्ताः जाताः। विषये अस्मिन् 'बात्' विश्वविद्यालयस्य गवेषकैः कृतम् अध्ययनम् Nature communications नाम प्रसिद्घायां विज्ञानवार्तापत्रिकायां प्रकाशितं वर्तते। इत्थं अतिजीवनक्षमाः भुजङ्गाः एव लोके सर्वत्र व्याप्ताः त्रिसहस्राधिकभेदैः परिणमिताः च। तेषां जीवाश्मं (Fossil) निरीक्ष्य विविधकालेषु भुजङ्गानां जनितकभेदानि विशेषानुसन्धानविधेयं कृत्वा एव गवेषकाः एतादृशनिगमनेषु संप्राप्ताः।
पञ्चाबे चरणजितसिंह चन्निः नूतनः मुख्यमन्त्री।
नवदिल्ली> वर्तमानः मुख्यमन्त्री अमरीन्द्रसिंहः त्यागपत्रं समर्पितवान् इत्यतः शिक्षामन्त्रिरूपेण परिलसितः चरणजितसिंह चन्निः नूतनमुख्यमन्त्रिरूपेण अद्य शपथवाचनं करोति। गतेषु कतिपयमासेषु पञ्चाबराज्ये अनुवर्तमानस्य राजनैतिककलहस्य परिणतफलमेवैतत्।
विधानसभानिर्वाचनाय मासचतुष्टयमेव अवशिष्यते। कोण्ग्रस् दलस्य राज्याध्यक्षः नवज्योतिसिंहसिद्दुः , देशीयसचिवप्रमुखः हरीष् रावतः इत्येताभ्यां सह राज्यपालं बलवारिलाल पुरोहितमुपगम्य चरणजितः मुख्यमन्त्रिपदाय अधिकाराभ्यर्थनाम् उन्नीतवान्। अद्य एकादशवादने सत्यशपथं कर्तुं राज्यपालः अनुज्ञामदात्।
स्वास्थ्य-राजनैतिक प्रवर्ततकाः रहसि वक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति।
मुम्बै> मुम्बैनगरे स्वास्थ्यप्रवर्तकाः राजनैतिकप्रवर्तकाः तेषां कार्यकर्तारः च विविध आतुरालयात् वाक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति इति प्रतिवेदनम्। डैम्स् ओफ् इन्ट्या पत्रिकया एव विषयमिदम् प्रतिवेदितम्। केचन कोविन् जालपुटे (web site) पञ्चीकरणं विना तथा अन्ये केचन विभिन्नदूरवाणीसंख्यामुपयुज्य पञ्चीकरणं कृत्वा च तृतीयमात्रां स्वीकुर्वन्ति इति ज्ञायते। ते जनाः शरीरस्थस्य आन्टिबोडि अंशस्य स्थितिं परीक्ष्यनन्तरमेव तृतीयमात्रां स्वीकुर्वन्ति इति आवेदने सूचयन्ति। भारते वाक्सिनस्य मात्राद्वयं दातुमेव सर्वकारेण निश्चितः। तृतीयमात्रादानम् अधिकृत्य निर्णयः समीपकाले न भविष्यति इति सर्वकारेण पूर्वं सूचितमासीत्। अस्मिन् सन्दर्भे एव केचन रहसि तृतीयमात्रां स्वीकुर्वन्ति।
दिवसेनैकेन २.५० कोटि मात्रामितं वाक्सिनं प्रदाय भारतं प्रथमस्थानमवाप्तम्।
विख्यातः भौतिकशास्त्रज्ञः ताणु पद्मनाभः दिवंगतः।
तापगतिमाधारीकृत्य सामान्यापेक्षिकता सिद्धान्तं विपुलीकृत्य भौतिकशास्त्राय सुप्रधानं योगदानं कृतवानयम्। नक्षत्र भौतिक प्रपञ्चविज्ञानीयशाखासु कृतहस्तः पण्डितः आसीत्।
भारतस्य पद्मश्रीपुरस्कारेण समादृतोऽयं केरलसर्वकारस्य परमोन्नतशास्त्रपुरस्कारेण 'केरलशास्त्रपुरस्कारेण' अधुनातनकाले सम्मानितवान्। आसीत्।
केरले +1 परीक्षायै सर्वोच्चन्यायालयस्य अनुज्ञा।
नवदिल्ली> केरले +1 परीक्षा विद्यालयेषु साक्षात् समायोजयितुं सर्वोच्चन्यायालयेन अनुज्ञा दत्ता। परीक्षासंचालनाय केरलसर्वकारेण समर्पितं विशदीकरणं तृप्तिकरमिति न्याय. ए एम् खान्विल्करस्य आध्यक्षे वर्तमानेन नीतिपीठेन स्पष्टीकृतम्।
+1 परीक्षायाः समयक्रमः पुनःक्रमीकरिष्यते इति केरलशिक्षामन्त्रिणा वि. शिवन्कुट्टिवर्येणोक्तम्। अस्मिन् मासे २३ वा २४ दिनाङ्के आरब्धुं पर्यालोचना वर्तते। प्रश्नपत्रिकायाः वितरणमद्यैव आरप्स्यते।
चत्वारः सामान्ययात्रिकाः बहिराकाशं प्रति गच्छन्ति। चरित्रमालेख्य स्पेस् एक्स्।
वाषिङ्टण्> बहिराकाशसञ्चारे नूतनचरित्रं विरचयति इलोण्मास्कस्य स्पेस् एक्स्। फ्लोरिडस्य केन्नडि स्पेस् केन्द्रात् ड्रागण् गोलिकायां (Dragon capsule) आरुह्य उड्डयिताः सञ्चारिणः चरित्रे स्थानमवहन्। अद्य प्रभाते भारतसमये ५.३० वादने आ असीत् उड्डयनम्। बहिराकाशगमने परिशीलनरहिताः चत्वारः सञ्चारिणः फाल्कण् आकाशबाणमारुह्य बहिराकाशं प्रति उड्डयिताः। अमेरिक्कायाः आर्थिकसेवासंस्थायाः Shift 4 payments ink इत्यस्य स्थापकः जेर्ड् ऐसक्मानस्य नेतृत्वे सियान् प्रोक्टर्, हेय्ली आर्सी नक्स्, क्रिस् सेंब्रोस्कि प्रभृतयः एव बहिराकाशं प्रति प्रस्थिताः। एतेभ्यः दीर्घकालबहिराकाशपरिशीलनं न लब्धम्। षण्मासात् पूर्वमेव यात्रिकान् अचिन्वत।
ऐ एस् संघटनस्य 'ग्रेटर् सहारा' नेता व्यापादितः।
पारीस्> भीकरसंस्थायाः ऐ एस् नामिकायाः 'ग्रेटर् सहारा' मण्डलस्य प्रमुखः नेता अद्नान् अबु वालिद् अल् सहरावि नामकः फ्रञ्च् सैन्येन निहतः इति फ्रञ्च् राष्ट्रपतिः इम्मानुवल् मक्रोणः ट्विटर्द्वारा निगदितवान्। हत्यायाः विशदांशाः न बहिरागताः।
२०१७ मध्ये नैजरे ऐ एस् संघटनेन कृते आक्रमणे ४ यू एस् सैनिकाः ४ नैजर् सैनिकाश्च हताः आसन्। अस्य आक्रमणस्य मुख्यसूत्रधारः आसीत् सहराविः।
भारते ६२% जनाः वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः।
नवदिल्ली> राष्ट्रे १८ उपरिवयस्केषु ६२ प्रतिशतं जनाः कोविड्वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः इति केन्द्रस्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। ये मात्राद्वयमपि स्वीकृताः, ते प्रतिशतं २० इति सूच्यते।
वाक्सिनीकरणे केरलं हिमाचलप्रदेशश्च अग्रे वर्तेते।हिमाचले अशेषाः जनाः प्रथममात्रां स्वीकृतवन्तः। द्वितीयमात्रस्वीकृताः ३७% भवन्ति। केरले तु प्रममात्रास्वीकृताः ८६ % ,तथा द्वितीयमात्रामपि स्वीकृताः ३५% च भवन्ति। वाक्सिनस्वीकरणे तृतीयस्थानं तु उत्तराखण्डाय लभते।
फेरो द्वीपे मृगयाविनोद:। एकदिनाभ्यनरे 1500 मकरमत्स्याः हताः।
कोप्पन् हेगन्> डेन्मार्कस्थः फेरो द्वीपः इदानीं शोणितमयं भवति। दीपस्थे स्कालबोट्सूर् समुद्रतीरे एकस्मिन् दिनाभन्तरे 1500 मकरमत्स्याः हताः। द्वीपे प्रतिवर्षं विनोदार्थम् आयोज्यमाने ग्रैन्डड्राप् नाम समुद्रविनोदाखेटे एव बहवः मकरमत्स्याः आहताः। गतचतुःशतसंवत्सरं यावत् अनुवर्तिते आचारसंबन्धिविनोदे गणनातीताः तिमिंगलाः, मकरमत्स्याः च आखेटिताः सन्ति। फेरो द्वीपसमीपे तीरदेशे मृतिमुपगतानां मकरमत्स्यानां चित्राणि सामूहिक माध्यमेषु प्रचलिताः सन्ति। विनोदार्थं फेरो जनतया कृतानि क्रूरकर्माणि इदानीं आगोलतले रोषकारणम् अभवत्। मकरमत्स्यानां हननं निरोधयितुं प्रक्रमः आवश्यकः इति समुद्रजीविपालनसंधाः अभिप्रयन्ति। शताब्दानि यावत् अनुवर्तमानः मृगयाविनोदः एषः इत्यतः क्रूरकर्ममेतत् फेरो द्वीपे नियमानुसृतं अङ्गीकृतं च भवति।
मासमेकं समुद्रे जलोपरि प्लाविते मृतशरीरे कोविड्रोगः दृढीकृतः।
जले निमज्य मरणानन्तरं त्रिंशदधिकदिनं यावत् समुद्रे जलोपरि प्लाविते मृतशरीरे कोविड्रोगाणुः जीवति इति दुबाय् राष्ट्रस्य आरक्षकविभागस्य व्यावहारिकभिषग्वरैः (forensic doctors) आवेदितम्। मरणानन्तरं एकमासाधिकदिवसेषु मृतशरीरे कोविड्वैराणोः सान्निध्यम् आसीत् इति भिषग्वराः अवदन्। प्रक्रमार्थं सप्तदशदिनानि मृतदेहप्रकोष्ठे ( mortuary ) पालिते अन्ये मृतशरीरे अपि कोविड् वैराणोः सान्निध्यं दृढीकृतमिति दुबाय् राष्ट्रस्य रक्षिपुरुषैः आवेदितम्। अवस्थाद्वये सविशेषाध्ययनं (case study) कृत्वा विलम्बं विना निगमनं प्रकाशयिष्यते इति व्यावहारिकभैषज्यदलस्य निर्देशकेन मेजर् डॉ. अहम्मद् अल्हाष्मिना निगदितम्। प्रायेण वैराणुः मनुष्यस्य मरणानन्तरं नश्यति इत्येव इतःपर्यन्तं गवेषणफलम्। किन्तु कोविड्वैराणोः सजीवसान्निध्यं मृतदेहे अस्ति इत्येतत् विशेषानुसन्धानाध्ययनविधेयं भवितव्यमिति तेन सूचितम्।
पान् - आधारपत्रयोः संयोजने विमुखेभ्यः वित्तकोशविनिमयस्य विघ्नः भविष्यति।
नवदिल्ली> सेप्तम्बर् मासस्य त्रिंशत्तमदिनाङ्कात् पूर्वं पान् पत्रम् आधारपत्रेण सह न योजयति चेत् वित्तकोशविनिमयस्य विघ्नः भविष्यति इति स्टेट् बैंक ओफ् इन्ट्या संस्था उपभोक्तृन् आवेदयामास। आधारपत्रेण सह न योजयति चेत् पान् पत्रम् मूल्यरहितं भविष्यति। एवं चेत् पान् पत्रद्वारा क्रियमाणः आर्थिकविनिमयः सफलं न भविष्यति इति वित्तकोशेन ट्विट्टर् द्वारा स्पष्टीकृतम् । वित्तकोशलेखस्य आरम्भाय तथा धननिक्षेपाय च पान् पत्रम् अत्यन्तापेक्षितं भवति।
कोविड्मरणमधिकृत्य केन्द्रसर्वकारेण नूतनी मार्गरेखा ख्यापिता-
कोविड्स्पष्टतानन्तरं ३० दिनाभ्यन्तरमरणानि कोविड्मरणान्येव।
नवदिल्ली> कोविड्वैराणोः स्पष्टतानन्तरं ३० दिनाभ्यन्तरे म्रियते चेत् तादृशमरणानि कोनिड्मृत्युरिति प्रकल्प्य प्रमाणपत्रं दीयतामिति केन्द्रसर्वकारेण निगदितम्। स्वास्थ्यमन्त्रालयः तथा ऐ सि एम् आर् संस्था च मिलित्वा एव नूतनमार्गरेखां सज्जीकरोत्।
नूतनी मार्गरेखा सर्वोच्चन्यायालये समर्पिता। किञ्च सर्वेषां राज्याणां मुख्यपञ्जीकरणाधिकारिणां कृते चेयं मार्गरेखा प्रेषिष्यते।
यदि मृत्युः आतुरालये न सम्भवति चेदपि कोविड्मरणस्य प्रमाणपत्रं दास्यति। किन्तु दुर्घटना , आत्माहुतिः, हत्या, विषोपयोगेन मरणम् ईदृशप्रकरणेषु ते कोविड्रोगिणः अपि कोविड्मरणे न परिगण्यन्ते इति मार्गरेखायां स्पष्टीकृतमस्ति।
भारते नूतनाः २८,५९१ कोविड्रोगिणः।
नवदिल्ली> रविवासरस्य प्रातःपर्यन्तं वर्तियायां २४होरावेलायां राष्ट्रे २८,५९१ जनाः अपि कोविड्बाधिताः अभवन्। ३३८ मरणान्यपि आवेदिताः। अनेन आहत्य मरणानि ४,४२,६५५ जातानि। प्रतिदिन टि पि आर् मानं १.८७ अस्ति।
राष्ट्रस्य कोविड्प्रतिरोधाय सूच्यौषधप्रक्रिया ७४कोटिः अतीतेति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। शनिवासरे ७२,८६,८८३ वाक्सिनानि दत्तानि।
भूपेन्द्रपट्टेलः गुजरातस्य नूतनः मुख्यमन्त्री।
अहम्मदाबादः> गुजरातराज्ये नूतनमुख्यमन्त्रिरूपेण भूपेन्द्रपट्टेलः अद्य शपथवाचनं करिष्यति। मन्त्रिमण्डलस्य रूपीकरणम् अचिरादेव भविष्यति। गुजरातविधीनसभायां नूतनसामाजिकः भवति ५९वयस्कः भूपेन्द्र रजनीकान्तपट्टेलः।
भा ज पा राष्ट्रियनेतृत्वस्य निर्देशानुसारं वर्तमानो मुख्यमन्त्री विजयरूपाणिः गतदिने त्यागपत्रं समर्पितवानासीत्। गुजरातविधानसभानिर्वाचनाय संवत्सरैक एवावशिष्यते।
आतङ्कवादः प्रतिरुध्यते इति भारतम् आस्ट्रेलिया च।
नवदिल्ली> अफ्गानिस्थाने तालिबानेन उन्नीतानि वैरनिर्यातनानि आगोलभीकरतां च युगपद् प्रतिरोद्धुं भारत - आस्ट्रेलिया राष्ट्रयोर्मध्ये निर्णयः जातः। भारत-पसफिक् मण्डले निर्व्याजः स्वतन्त्रः च नीतिमार्गः रूपीकरणीयः इति उभयोः राष्ट्रयोः मन्त्रितलचर्चायां निर्णयोSभवत्।
भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः रक्षामन्त्री राजनाथसिंहः. आस्ट्रेलियायाः विदेशकार्यमन्त्री मारिस् पेयिनः रक्षामन्त्री पीटर् डट्टणश्च चर्चायां भागभागित्वं कृतवन्तः।
भारत-प्रशासनेन खाद्य-तैलानाम् मानकमूल्यानि न्यूनीकृतानि
- पुरुषोत्तमशर्मा नवदेहली
नवदिल्ली> केन्द्र-प्रशासनेन उपभोक्तृभ्यः उचितमूल्येषू खाद्य-तैलानाम् उपलब्धता सुनिश्चेतुं क्रूड- पाम सोयाबीन-सूरजमुखी इत्येषां तैलेषु मानक-दरः अपचीय द्वि दशमलव पञ्च- प्रतिशतन्मिता कृता अस्ति। नूतनमूल्यानि शनिवारात् प्रभावितानि जातानि। वर्तमान-वर्षे अन्ताराष्ट्रियस्तरे राष्टिय-स्तरे खाद्य-तेलानां मूल्येषु वृद्धिः अभवत्। या हि मुद्रास्फीतेः उपभोक्तृणां च संदर्भे चिन्तायाः विषयः अस्ति। खाद्यतैलेषु आयात-शुल्कम् एकं महत्वपूर्णं कारकम् अस्ति यस्य प्रभावः खाद्यतैलानां मूल्येषु दृष्टः। मूल्यवृद्धेः प्रभावम् अपाकर्तुं अस्मिन् वर्षे फरवरी मासात् अगस्त मासं यावत् नैके पदक्षेपाः उत्थापिताः।
नवदिल्ल्यां विमानपत्तने जलसञ्चयः।
अतिवृष्ट्या विमानसेवायां विध्नः अभवत्।।