OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 23, 2025

 उपराष्ट्रपतिनिर्वाचनम्।

स्पर्धामञ्चे सि पी राधाकृष्णः सुदर्शन रेड्डी च।

नवदिल्ली> उपराष्ट्रपतिनिर्वाचनाय समर्पितानां नामाङ्कनपत्राणां सूक्ष्मपरिशोधना सम्पूर्णा। आहत्य ४६ पत्रिकाः समर्पिताः। तासु एन् डि ए स्थानाशिनः सि पि राधाकृष्णस्य ऐ एन् डि ऐ ए स्थानाशिनः सुदर्शन रेड्डेः नामाङ्कनपत्रिकाः वरणाधिकारिणा स्वीकृताः। अन्याः सर्वाः निरस्ताः। 

  नामाङ्कनपत्रिकाः प्रत्याहर्तुं आगस्ट् २५ दिनाङ्कं यावत् कालः अस्ति। निर्वाचनं सेप्टम्बर् नवमदिनाङ्के  सम्पत्स्यते।

 श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः

विक्रमसिङ्गे निगृहीतः। 

>> निग्रहणं सर्वकारद्रव्यस्य दुर्विनियोगेन।

>> निगृहीतः प्रथमः भूतपूर्वराष्ट्रपतिः। 

निगृहीतः रनिल विक्रमसिङ्गे कारागारं नीयते। 

कोलम्बो> अधिकारे वर्तिते सर्वकारस्य आर्थिकसम्पत् दुर्विनियोगं कृतवान् इत्यारोप्य श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः रनिल् 

विक्रमसिङ्गे [७६] गतदिने आरक्षकैः निगृहीतः। प्रकरणेSस्मिन् परिप्रश्नार्थं सः कोलम्बोस्थेन 'सि ऐ डि' विभागेन आहूत आसीत्। परिपृच्छानन्तरं निग्रहणं कृतमिति आरक्षकाधिकारिणा निगदितम्। विक्रमसिङ्गेवर्यः २६ दिनाङ्कपर्यन्तं कारागारं प्रेषितः। श्रीलङ्कायां आरक्षकनिग्रहणे वर्तमानः प्रथमः भूतपूर्वराष्ट्रपतिः भवति विक्रमसिङ्गे। 

  २०२२ जूलाय् आरभ्य २०२४ सेप्टम्बरपर्यन्तं श्रीलङ्कायाः राष्ट्रपतिः आसीत् विक्रमसिङ्गे। षट्वारं राष्ट्रस्य प्रधानमन्त्री च आसीत् सः। तस्य पत्नी प्रोफेसर मैत्री इत्यस्याः  बिरुदस्वीकरणकार्यक्रमे भागं कर्तुं विक्रमसिङ्गे वर्यस्य   इङ्गलण्टगमनं सर्वकारव्ययेन आसीत् इत्येव  तस्य उपरि आरोपितः अपराधः।

Latestest news

 केरलं राष्ट्रस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यमभवत्। 

केरलस्य डिजिटल् विद्यावद्राज्योद्घोषणकार्यक्रमे ७५ वयस्का नवविद्यावत्यौ शारदा काणी, विशालाक्षी च मुख्यमन्त्रिणा इतरैः मन्त्रिभिश्च सह जङ्गमदूरवाण्या 'सेल्फीं' स्वीकुरुतः। 
  

अनन्तपुरी> भारतस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यम् इति बहुमतिः केरलाय लभ्यते। गुरुवासरे सायं अनन्तपुर्यां 'सेन्ट्रल् स्टेडियम्' क्रीडाङ्कणे डिजिटल् विद्यां प्राप्तवतः वरिष्ठजनान् बहुजनसञ्चयं च साक्षीकृत्य मुख्यमन्त्री पिणरायि विजयः डिजिटल् विद्याप्राप्तिघोषणां कृतवान्। तद्देशशासनविभागस्य तथा संसदीयकार्यस्य च मन्त्री एं बी राजेषः कार्यक्रमे अध्यक्ष अभवत्। 

  आराज्यं ८३,४५,८७९ गृहेषु समग्रान्वीक्षणं कृत्वा २१,८७,९६६ जनाः नूतनतया डिजिटल् शिक्षां लब्धवन्तः। तेषु १०५वयस्कः पेरुम्बावूर् निवासीयः एम् ए अब्दुल्ला मौलवी वरिष्ठतमः नवविद्यावान् अस्ति। २,५७,०४८ सन्नद्धसेवकाः राज्यस्य सम्पूर्णडिजिटल् विद्याप्राप्तये अश्रान्तपरिश्रमं कृतवन्तः।

Friday, August 22, 2025

 संसद्सभा समाप्ता। 

लोकसभायां १२ विधेयकानि अनुमोदितानि; राज्यसभायां १५। 

नवदिल्ली> २१ दिनात्मकं संसदः वर्षाकालसम्मेलनं गुरुवासरे समाप्तम्। १९ दिनेषु संसद् विपक्षदलीयानां कोलाहलेन अवरुद्धा जाता। 

 १२ विधेयकानि चर्चां विना निमेषाभ्यन्तरे लोकसभायाम्  अनुमोदितानि। राज्यसभायां १५ विधेयकानि च अनुमोदितानि।

 दयालुः न्यायाधिपः फ्रान्क् काप्रियो दिवंगतः।

न्याधीशः फ्रान्क् कार्पियो। 

न्यूयोर्क्> स्वसमक्षमागतानि प्रकरणानि सौम्येन मनुष्यत्वपूर्णेन च व्यवहारेण विधिं प्रस्तूय, आविश्वं जनानां मनसि चिरप्रतिष्ठाम् अवाप्तः यू एस् राष्ट्रस्य न्यायाधीशः  फ्रान्क् काप्रियो वर्यः (८८) दिवंगतः। 'विश्वस्य सर्वश्रेष्ठः न्यायाधिप‌ः' इति आराधकवृन्दानां सः प्रियविशिष्टः आसीत्। 

  अमेरिकायां रोड् ऐलन्ड् इत्यत्र Municipal Court of Providence न्यायालयस्य मुख्यन्यायाधिपः आसीत् काप्रियोवर्यः। अपराधिनः  प्रति स्वतःसिद्धेन नर्मभाषणेन सः संवादमकरोत्। निर्धनानामवस्थां विज्ञाय द्रव्यदण्डः अपाकृतः। तस्य कारुण्यभावस्य पुरतः बहवः न्यायसभायामेव मानसान्तरं प्राप्य पश्चात्तापविवशाः बभूवुः। आसन्नमरणः सः 'इन्स्टग्राम्' माध्यमद्वारा "भवतां प्रार्थनायां मामपि अन्तर्भावयन्तु" इत्येव जनान् प्रति तस्य प्रार्थना। ३४ लक्षं जनाः इन्स्टग्रामे तस्य अनुगामिनः वर्तन्ते।

 अतिजीवति, शुण्डारहितः कलभः!

शुण्डाहीनः कलभः स्वपरिवारस्य संरक्षणे।

कोच्ची> अतिजीवनस्य आख्यानं विरचयन्  चतुर्वयस्कः गजपोतः वनान्तरे विचरति। केरले तृशूर् जनपदस्थे आतिरप्पल्लि काननक्षेत्रे अस्ति शुण्डाहीनस्य  कलभसुवीरस्य परिवारेण सह विहारः। 

  २०२३जनुवरिमासे आसीत् शुण्डाविहीनः गज बालकस्य वृत्तान्तः बाह्यलोकं प्राप्तः। यदा अयं बालगजः  स्वमात्रोपेतेन गजसंघेन सह आतिरप्पल्ली समीपे वनोपान्ते सञ्चरति तदा वन्यजीविछायाचित्रकारस्य जिनेष् चन्द्रस्य दृष्टिपथे  पतितः।  तदा सः द्विवयस्कः इति सूचितम्। शुण्डा नास्तीत्यतः कलभस्य जीवने तद्विषये अभिज्ञाः आशङ्कां प्रकटितवन्तः आसन्। यतः शुण्डा एव गजानां मुख्यजीवनोपाधिः। श्वसने, जलपाने, आहारसंग्रहणे इत्यादिषु शुण्डाहीनस्य गजपोतस्य सुस्थितिः दुर्घटे भवेत्। 

गजपोतः परिवारेण सह वनोपान्ते सञ्चरति। 

  परन्तु संवत्सरद्वयात्परं स गजपोतः पुनरपि वेट्टिलप्पारा नामके स्थाने आनमल वीथ्यां मात्रा सह प्राप्तवान्। संवत्सरचतुष्टयेन सः जीवन्नस्तीति अद्भुतावहः इति वनपालकाधिकारिभिः अभिज्ञैः च प्रोक्तम्। धेनव इव वदनेनैव जलं पीत्वा, न्यूनोन्नतेभ्यः वृक्षेभ्यः पत्राणि गृहीत्वा भक्षयन् सः अतिजीवनस्य मार्गे अग्रे सरति।

Latest News

 एष्या चषक होक्की - 

हर्मन् प्रीतः भारतस्य नायकः। 


नवदिल्ली> एष्या चषक यष्टिक्रीडापरम्परायै भारतदलम् उद्घोषितम्। हर्मन् प्रीत सिंहः दलं नेष्यति।

  बिहारस्थे राजगिरौ २९ तमे दिनाङ्के वीरतास्पर्धाः आरप्स्यन्ते। विजेतृदलं विश्वचषकाय स्पर्धितुम् अर्हतां प्राप्स्यति। भारतेन सह जापानं,चीनः, कसाखिस्थानम् इत्येतानि दलान्यपि 'पूल् ए' इत्यस्मिन् संघे अन्तर्भवन्ति।

Thursday, August 21, 2025

 प्रज्ञानन्दः पुरः सरति।


सेन्ट् लूयिस्> अमेरिकायां अनुवर्तमाने 'सिन्क्यू फील्ड्' चतुरङ्गप्रतिद्वन्दे भारतस्य आर् प्रज्ञानन्दः अग्रे सरति। 

   द्वितीयचक्रे अमेरिकायाः फाबियो करुवाना इत्येनं प्रज्ञानन्दः समस्थितिं बबन्ध।  अनेन तस्मै १.५ अङ्कः लब्धः। प्रथमचक्रे सः विश्ववीरं भारतस्यैव डि गुकेशं पराजितवानासीत्।

 ओण् लैन् द्यूतनिरोधविधेयकं लोकसभया अनुमोदितम्। 

नवदिल्ली> भाग्यताप्रमाणपत्राणि (Lottery) अभिव्याप्य सर्वाः  अन्तर्जालीयद्यूतक्रीडाः, पणव्यवहारान् च निरोद्धुमुद्दिश्य केन्द्रसर्वकारेण प्रस्तुतं विधेयकं लोकसभायाम् अनुमोदितम्। विपक्षदलीयसदस्यानां प्रतिषेधकोलाहलानामाभ्यन्तरे चर्चां विना आसीत् अनुमोदनम्। 

  राज्यसभया अपि अनुमोद्य नियमरूपेण परिवर्तनेन ओण् लैन्द्वारा वर्तमानानि 'फान्टसि स्पोर्ट्स्, पोक्कर्, रम्मी, इतर कार्ड् पत्रक्रीडाः, ओण् लैन् भाग्यायत्तप्रमाणपत्राणि' इत्यादीनि निरुद्धानि भवेयुः।  एतादृशद्यूतानि अधिकृत्य आर्थिकव्यवहाराणां वर्षत्रयस्य कारागारदण्डः एककोटिरूप्यकाणां द्रव्यदण्डः वा उभयमपि वा लप्स्यते।

 उपराष्ट्रपति निर्वाचनम्। 

न्याया. सुदर्शन रेड्डिः विपक्षीयस्थानाशी। 

न्यायाधीश सुदर्शन रेड्डिः। 

नवदिल्ली> सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधीशः सुदर्शन रेड्डिः विपक्षदलीयानां संयुक्तोपराष्ट्रपतिस्थानाशी भविष्यति। कोण्ग्रस् अध्यक्षस्य मल्लिकार्जुन खार्गेवर्यस्य वसत्यां सम्पन्ने विपक्षदलीयनेतॄणाम् उपवेशने आसीदयं निर्णयः। 

  आन्ध्रप्रदेशस्य उच्चन्यायालयस्य न्यायाधिपः, गुहावती उच्चन्यायालयस्य मुख्यन्यायाधिपः, सर्वोच्चन्यायालयस्य न्यायाधिपः इत्येतेषु पदेषु विराजितस्य सुदर्शन रेड्डिवर्यस्य १६ संवत्सराणां सेवाकालः अस्ति। तेलङ्कानीयः अयं   गोवायाः प्रथमः लोकायुक्तश्च आसीत्।

  प्रशासनपक्षस्य स्थानाशिरूपेण राज्यपालः सि पि राधाकृष्णः पूर्वं चित आसीत्। जगदीप धन्करस्य स्थानत्यागादेव उपराष्ट्रपतिनिर्वाचनम् अनिवार्यमभवत्।

 एष्याचषकक्रिकट् 

भारतदलम् उद्घोषितम्। 

+ सूर्यकुमारयादवः नायकः।

+ सञ्जु सांसणः अन्तः।

+ शुभमान गिलः उपनायकः।

+ श्रेयस् अय्यरः, यशस्वी, मुहम्मद सिराजः बहिः। 

नायकः सूर्यकुमार यादवः।

मुम्बई> 'एष्या कप् टि-२०' क्रिकट् स्पर्धायाः भारतक्रीडादलम् उद्घोषितम्। सूर्यकुमार यादवः  नायकः भविष्यति। निकषदलस्य नायकः शुभमान गिलः अत्र  उपनायकः अस्ति। भारतदलस्य द्वारकपालकः सञ्जु सांसणाय दले स्थानं लब्धम्। केरलीयः सञ्जुः प्रारम्भकेन परिगण्यते इति मुख्यसंग्राहकः अजित अगार्करः दलप्रख्यापनाय आकारिते  वार्ताहरमेलने प्रोक्तवान्।

  ऐ पि एल् परम्परायां श्रेष्ठक्रीडया विराजितवन्तः श्रेयस् अय्यरः, यशस्वी जयस्वाल्, मुहम्मद सिराजः, वाषिङ्टण सुन्दरः, इत्येतेभ्यः दले स्थानं न लब्धम्। 

  सेप्टम्बर् अष्टमदिनाङ्कतः यू ए ई राष्ट्रे स्पर्धाः सम्पत्स्यन्ते। भारतं ए संघे क्रीडिष्यति। पाकिस्थानं, यू ए ई , ओमान् इत्येतानि दलानि अपि अस्मिन् संघे वर्तन्ते। सेप्टम्बर् दशमदिनाङ्के यू ए ई दलेन सह भारतस्य प्रथमा प्रतियोगिता सम्पत्स्यते।

Wednesday, August 20, 2025

 यात्राशुल्कः सर्वोच्चन्यायालयेनापि निरस्तः। 

यातायाते सुगमे यात्राशुल्कः पुनस्थापनीयः।

राष्ट्रियमार्गे ५४४ मध्ये जातः यानसम्मर्दः। 

नवदिल्ली> केरले राष्ट्रियमार्गः - ५४४ मध्ये तृश्शिवपेरूर् जनपदस्थे पालियेक्करा स्थाने वर्तमाने यात्रशुल्कसंग्रहणकेन्द्रे एकमासं यावत् शुल्कसंग्रहणं निरस्यमिति उच्चन्यायालयस्य आदेशः सर्वोच्चन्यायालयेनापि साधूकृतः। मासान् यावत् राजमार्गे तत्र तत्र पुनर्निर्माणप्रवर्तनैः यात्रक्लेशः कठिनतरः आसीत्। इदानीमपि बहुत्र मार्गस्य शोच्यावस्थया यानस्थगनं होराः अनुवर्तते। तस्य आधारे सामान्यजनहितार्थं केरलस्य उच्चन्यायालयेन यात्राशुल्कसंग्रहणं निरुद्धम्। 

  एनमादेशं विरुध्य राष्ट्रियमार्गाधिकारिणा [National High way Authority of India - NHAI] निर्माणसंस्थया च  समर्पिता पुनरालोचनाप्रार्थना गतदिने सर्वोच्चन्यायालयेन निरस्ता। नीतिपीठेन स्पष्टीकृतं यत्  यदा यातायातः सुगमः क्लेशरहितः च भविष्यति तदा यात्राशुल्काय अर्हता भविष्यन्ति।

 'जि एस् टि' परिष्कारः आर्थिकाभिवृद्धये कारणं भविष्यति। 

मुम्बई> प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वतन्त्रतादिने उद्घोषितः पण्यसेवाकरपरिष्कारः राष्ट्रस्य आर्थिकाभिवृद्धये हेतुः भविष्यतीति गवेषकाः। करपरिष्कारः २.४ कोटिरूप्यकाणाम् अधिकोपभोगं विधास्यतीति प्रतीक्षते। 

  दीपावलिमनुबन्ध्य करपरिष्करणं प्रबलं भविष्यतीति प्रधानमन्त्रिणा स्पष्टीकृतमासीत्। राष्ट्रे उत्सवकालः आरभ्यते इत्यतः उपभोगः वर्धिष्यते।

 शुभांशुः मोदिनं मिलितवान्। 

चर्चायां गगनयानयोजना अपि। 

नवदिल्ली>  अन्ताराष्ट्रबहिराकाशनिलये स्वदौत्यं पूर्तीकृत्य भारतं प्रत्यागतवान् शुभांशु शुक्लः प्रधानमन्त्रिणं नरेन्द्रमोदिनं मिलितवान्। प्रधानमन्त्री शुभांशुं समालिंग्य स्वीकृतवान्। 

  गगनयानदौत्यमधिकृत्य उभावपि चर्चितवन्तौ इति परं मोदिवर्यः 'एक्स्' समाजमाध्यमे लिखितवान्।

Tuesday, August 19, 2025

  ऐ.ऐ.टी. रुड़की संस्थायां द्वादश-दिवसीय-शिक्षक-प्रशिक्षण-कार्यशालायाः शुभारम्भः।

भारतीयप्रौद्योगिकीसंस्थानस्य (IIT) रुड़की-स्थितस्य व्यवस्थापन-अध्ययन-विभागेन (DOMS), संस्कृतक्लब् रुड़की संस्कृतभारती-जनपद-रुड़की- संस्थभिः च संयुक्तरूपेण सोमवासरे द्विदश-दिवसीया शिक्षक-प्रशिक्षण-कार्यशाला आरब्धा। अस्याः कार्यशालायाः विषयः अस्ति – “राष्ट्रीय-पुनर्जागरणाय एकः सार्थकः प्रयासः”।


 ऐ ऐ टी-रुड़की-निदेशकः डॉ॰ कमलकिशोरः पन्तः उत्तराखण्डस्य संस्कृत-शिक्षा-निदेशकः डॉ॰ आनन्दभारद्वाजः अन्ये च  संरक्षक-रूपेण च अस्मिन् प्रशिक्षण-कार्यक्रमे वर्तन्ते।

 गुजरात् महाराष्ट्र हरियानराज्येषु अतिवृष्टिः।

मुम्बई> महाराष्ट्रं, गुजरात्, हरियानम् इत्यादिषु पश्चिमोत्तरराज्येषु अतिवृष्टिरनुवर्तते। मुम्बई, पूणै प्रान्तेषु रक्तजाग्रत्ता उद्घोषिता। नगरद्वयमपि जलनिमग्नं वर्तते। यातायातसुविधा बहुक्लेशपूर्णा अस्ति। रेल् यानसेवा स्थगिता। 

 गुजरातराज्ये अपि अतिवृष्टिदुष्प्रभावः कठिनतरः। सूरट्, कच् जाम्नगरप्रदेशेषु  जलोपप्लवः अनुभूयते।

 धर्मस्थलः - मृतशरीरिणां कृते अन्वेषणम् अल्पकालिकेन समापितम्। 

आदर्शाणां परिणामानन्तरं वस्तुतान्वेषणमिति गृहमन्त्री।

बङ्गलुरु> धर्मस्थले मृतदेहावशिष्टानि अधिगन्तुं निश्चितस्थानानि खननं कृत्वा अन्वेषणम् अल्पकालिकेन समापितम्। अद्यावधि अधिगतानां शरीरावशिष्टानां रासपरिणामं लब्ध्वा अन्वेषणं पुनरारप्स्यते इति राज्यगृहमन्त्रिणा जि परमेश्वरेण निगदितम्। अनन्तरान्वेषणं कथं कार्यमिति सविशेषान्वेषणसंघेन [SIT] निर्णेतव्यमिति तेन प्रोक्तम्। 

 लब्धानां मृतशरीरावशिष्टानां डि एन् ए परिणामः अनुकूलं चेत् पुनरन्वेषणं गौरवेण विधास्यते; अन्वेषणे सर्वकारस्य व्यवहारः न भवेदिति विधानसभायां गृहमन्त्रिणा प्रस्तुतम्।

 नरेन्द्रमोदी पुतिनं दूरवाण्या सम्भाषणमकरोत्। 

व्लादिमीर पुतिनः (वामे) नरेन्द्रमोदी च।

नवदिल्ली> रूसराष्ट्रस्य राष्ट्रपतिना व्लादिमीर पुतिनेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दूरवाणीद्वारा सम्भाषणमकरोत्। गतदिने अलास्कायां सम्पन्नायाः ट्रम्प-पुतिनयोः शान्तिचर्चायाः अनन्तरमासीत् इदं सम्भाषणम्। 

  अलास्काचर्चामधिकृत्य स्वस्यावलोकनं पुतिनः मोदिनमवोचदिति प्रधानमन्त्रिणः कार्यालयेन निगदितम्। चर्चायाः नयतन्त्रस्य  चाधारेण संघर्षः दूरीकरणीयः , शान्तिमवलम्ब्य चर्चा चालनीया   इति भारतस्य अभिमतं मोदिवर्यः पुनरावर्तितम्।

 गासायुद्धनिरासः 

ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः हमासेन अङ्गीकृतः। 

गासा सिटी> २२ मासाधिककालं यावत् इस्रयेलं प्रति अनुवर्तमानस्य युद्धस्य निराकरणाय मध्यस्थयोः ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः अङ्गीकृतः इति  हमासेन निगदितम्। ६० दिनात्मकानां भुशुण्डिप्रयोगनिरासः, वारद्वयेन बन्धितानां मुक्तिः इत्येव नूतनः निर्देशः। शाश्वताय युद्धनिरासाय चर्चां कर्तुमारभ्यमाणः निर्देश इति वार्ताप्रतिनिधिः 'ए एफ् पि' इत्यनेन निगदितम्। 

  किन्तु अस्मिन् निर्देशं प्रति इस्रयेलस्य प्रतिस्पन्दः न बहिरागतः। हमासेन बन्धितेषु २५१ जनेषु कतिपयाः पूर्वं विमोचिताः। ४९ जनाः इदानीं हमासस्य सकाशे सन्ति। एषु २७ जनाः हताः इति इस्रयेलेन कथ्यते।

Monday, August 18, 2025

 सेलन्स्की-ट्रम्पमेलनम् अद्य। 

यूरोपीयराष्ट्रनेतारोSपि भागं कुर्वन्ति। 

ब्रसल्स्> रष्या-युक्रेनयुद्धं समापयितुं युक्रनस्य राष्ट्रपतिना वोलोदिमिर् सेलन्स्किना सह यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः कुर्वन्ती मध्यस्थचर्चा सोमवासरे वाषिङ्टणे विधास्यति। अतीते शुक्रवासरे रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह कृता ट्रम्पस्य चर्चा पूर्णफलप्राप्तिं नागता। अतः सेलन्सिना सह चर्चा प्राधान्यमर्हति। 

  परन्तु अद्यतनचर्चायां ब्रिटनस्य प्रधानमन्त्री केय्र स्टामरः, फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणः, जर्मनस्य 'चान्सलरः', नाटो इत्यस्य कार्यदर्शी इत्यादयः अपि भागं करिष्यन्ति। युक्रेनस्य बहून् प्रदेशान् निगृह्य युद्धं समापयितुं पुतिनस्य राजनैतिकतन्त्रं वर्तते इत्याशङ्का यूरोपीयराष्ट्रनेतृषु अस्ति। अत एव तेषां भागभागित्वमिति सूच्यते।

 शुभांशवे जन्मराष्ट्रे हृद्यं स्वीकरणम्। 

शुभांशवे दिल्ल्यां लब्धं स्वीकरणम्। मुख्यमन्त्री रेखा गुप्ता, केन्द्रमन्त्री जितेन्द्रसिंहश्च समीपम्। 

नवदिल्ली> अन्ताराष्ट्र बहिराकाशनिलये स्वस्य दौत्यं पूर्तीकृत्य पृथ्विं प्रत्यागतः संघनेता भारतीयः शुभांशु शुक्लः जन्मदेशं प्राप्तवान्। गगनयानदौत्यसंघाङ्गः केरलीयः च प्रशान्त बालकृष्णन् नायर् इत्यनेन सह दिल्ल्याम् इन्दिरा गान्धी अन्तर्देशीयविमाननिलयं सम्प्राप्ताय  शुभांशवे हृद्यं स्वीकरणं प्रदत्तम्। 

  केन्द्रमन्त्री जितेन्द्रसिंहः, दिल्ली मुख्यमन्त्री रेखा गुप्ता, ऐ एस् आर् ओ संस्थाध्यक्षः वि नारायणः, शुभांशोः पत्नी काम्ना, पुत्रः कियाषुः इत्यादयः विमाननिलये शुभांशुं स्वीकर्तुं प्राप्तवन्तः। सोमवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृत्वा जन्मस्थानं लख्नौ प्रति गमिष्यति।

 सि पि राधाकृष्णः एन् डि ए सख्यस्य उपराष्ट्रपतिस्थानाशी। 

इदानीं महाराष्ट्रे राज्यपालः। 


नवदिल्ली> महाराष्ट्रस्य राज्यपालः तथा तमिलनाटे भा ज पा नेता च सि पि राधाकृष्णः [६७] एन् डि ए सख्यस्य उपराष्ट्रपतिस्थानाशिरूपेण चितः। रविवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्षे समाकारिते भाजपादलस्य संसदीयोपवेशनानन्तरं राष्ट्रियाध्यक्षः जे पि नड्डावर्यः राधाकृष्णस्य स्थानाशित्वम् उदघोषयत्। 

  तमिलनाटे तिरुपूरप्रदेशीयः सि पि राधाकृष्णः द्विवारं कोयम्पत्तूरमण्डलात् लोकसभासदस्यरूपेण चितः आसीत्। २०२३ तमे झार्खण्डस्य राज्यपाल आसीत्। २००४ तः २००७पर्यन्तं तमिलनाटे भाजपादलस्य राज्याध्यक्षः आसीत्।

Latest news

Sunday, August 17, 2025

 केरले अतितीव्रवृष्टिः।

कोच्ची> केरलस्य मध्योत्तरजनपदेषु दिनद्वयेन अतिवृष्टिः अनुवर्तते। बहवः प्रदेशाः जलनिमग्नाः जाताः। 

 वयनाट्, कण्णूर्, कासरगोड् जनपदेषु रविवासरे ओरञ्च् जागरूकतानिर्देशः कल्पितः। इतरेषु पीतजागरूकता विधत्ता। वयनाटे बाणासुरसागरसेतुः जलपूरितः इत्यनेन  जलनिर्गमनमार्गाः उद्घाटिताः। एरणाकुलं जनपदे पेरियार् नद्यां जलवितानं उच्चमभवत्।

 ट्रम्प-पुतिनयोः उच्चशिखरमेलनम्। 

युक्रेनप्रकरणे निर्णयो नाभवत्। 

उच्चशिखरमेलनाय अलास्का प्राप्तं पुतिनं ट्रम्पः स्वीकरोति। 

आङ्करेज्> विश्वराष्ट्रैः आकांङ्क्षया पर्यवलोकितं ट्रम्प-पुतिनयोः युक्रैनप्रकरणमधिकृत्य उच्चशिखरमेलनं निष्प्रयोजनमभवत्।  यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः, रूसराष्ट्रस्य राष्ट्रपतिः व्लादिमिर् पुतिनः च मिथः गतदिने अलास्कायां  सम्पन्ने उच्चशिखरमेलने युक्रेनप्रकरणे शान्तिनिर्णयः नाभवत्। 

  अन्तिमसन्धिः नाभवत्तर्हि अपि चर्चायां क्रियात्मकः प्रगतिः जातः, परस्परचर्चा अनुवर्तिष्यते  इति होरात्रयं दीर्घितस्य मेलनस्य अनन्तरं विधत्ते संयुक्तप्रस्तावे नेतारौ प्रोक्तवन्तौ। अचिरेण लक्ष्यं प्राप्स्यतीति शुभाप्तिविश्वासश्च प्रकटितः।

 चीनस्य विदेशकार्यमन्त्री श्वः भारते। 

नवदिल्ली> सीमाविषये भारतस्य सुरक्षा उपदेष्टा अजित डोवलः इत्यनेन सह चर्चां कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ् यि नामकः सोमवासरे भारतं प्राप्स्यति। सीमाप्रकरणे द्वितीयवारचर्चा एव भारते सम्पत्स्यते। सीमासमस्यापरिहाराय द्वाभ्यां राष्ट्राभ्यां चितौ प्रतिनिधी भवतः डोवलः वाङ् यि च।