केरलं राष्ट्रस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यमभवत्। केरलस्य डिजिटल् विद्यावद्राज्योद्घोषणकार्यक्रमे ७५ वयस्का नवविद्यावत्यौ शारदा काणी, विशालाक्षी च मुख्यमन्त्रिणा इतरैः मन्त्रिभिश्च सह जङ्गमदूरवाण्या 'सेल्फीं' स्वीकुर्वतः।
अनन्तपुरी> भारतस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यम् इति बहुमतिः केरलाय लभ्यते। गुरुवासरे सायं अनन्तपुर्यां 'सेन्ट्रल् स्टेडियम्' क्रीडाङ्कणे डिजिटल् विद्यां प्राप्तवतः वरिष्ठजनान् बहुजनसञ्चयं च साक्षीकृत्य मुख्यमन्त्री पिणरायि विजयः डिजिटल् विद्याप्राप्तिघोषणां कृतवान्। तद्देशशासनविभागस्य तथा संसदीयकार्यस्य च मन्त्री एं बी राजेषः कार्यक्रमे अध्यक्ष अभवत्।
आराज्यं ८३,४५,८७९ गृहेषु समग्रान्वीक्षणं कृत्वा २१,८७,९६६ जनाः नूतनतया डिजिटल् शिक्षां लब्धवन्तः। तेषु १०५वयस्कः पेरुम्बावूर् निवासीयः एम् ए अब्दुल्ला मौलवी वरिष्ठतमः नवविद्यावान् अस्ति। २,५७,०४८ सन्नद्धसेवकाः राज्यस्य सम्पूर्णडिजिटल् विद्याप्राप्तये अश्रान्तपरिश्रमं कृतवन्तः।