OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, August 22, 2025

 दयालुः न्यायाधिपः फ्रान्क् काप्रियो दिवंगतः।

न्याधीशः फ्रान्क् कार्पियो। 

न्यूयोर्क्> स्वसमक्षमागतानि प्रकरणानि सौम्येन मनुष्यत्वपूर्णेन च व्यवहारेण विधिं प्रस्तूय, आविश्वं जनानां मनसि चिरप्रतिष्ठाम् अवाप्तः यू एस् राष्ट्रस्य न्यायाधीशः  फ्रान्क् काप्रियो वर्यः (८८) दिवंगतः। 'विश्वस्य सर्वश्रेष्ठः न्यायाधिप‌ः' इति आराधकवृन्दैः विशिष्टः आसीत्। 

  अमेरिकायां रोड् ऐलन्ड् इत्यत्र Municipal Court of Providence न्यायालयस्य मुख्यन्यायाधिपः आसीत् काप्रियोवर्यः। अपराधिनः  प्रति स्वतःसिद्धेन नर्मभाषणेन सः संवादमकरोत्। निर्धनानामवस्थां विज्ञाय द्रव्यदण्डः अपाकृतः। तस्य कारुण्यभावस्य पुरतः बहवः न्यायसभायामेव मानसान्तरं प्राप्य पश्चात्तापविवशाः बभूवुः। आसन्नमरणः सः 'इन्स्टग्राम्' माध्यमद्वारा "भवतां प्रार्थनायां मामपि अन्तर्भावयन्तु" इत्येव जनान् प्रति तस्य प्रार्थना। ३४ लक्षं जनाः इन्स्टग्रामे तस्य अनुगामिनः वर्तन्ते।