प्रज्ञानन्दः पुरः सरति।
सेन्ट् लूयिस्> अमेरिकायां अनुवर्तमाने 'सिन्क्यू फील्ड्' चतुरङ्गप्रतिद्वन्दे भारतस्य आर् प्रज्ञानन्दः अग्रे सरति।
द्वितीयचक्रे अमेरिकायाः फाबियो करुवाना इत्येनं प्रज्ञानन्दः समस्थितिं बबन्ध। अनेन तस्मै १.५ अङ्कः लब्धः। प्रथमचक्रे सः विश्ववीरं भारतस्यैव डि गुकेशं पराजितवानासीत्।
.webp)