OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 28, 2017

"सिका वैरस्" भारतेऽपि। 
अहम्मदाबाद् > भारते सिका वैरस् रोगबाधा स्थिरीकृता इति विश्व स्वास्थ्य संस्था। अहम्मदाबादे त्रयः जनाः रोगबाधिताः इति सूच्यते। इदं प्रथममेव भारते रोगस्थिरीकरणम्।  अहम्मदाबादस्थे बि जे मेडिक्कल् कोलेज् आतुरालये कृते रक्तपरिशोधे आसीत् त्रिषु जनेषु रोगबाधा दृष्टा। प्रथमं कस्मिंश्चित् ६४ वयस्के , ततः कस्यांचित् ३४वयस्कायां , पुनः २२वयस्कायां गर्भवत्यां च रोगबाधा स्थिरीकृता।
       शिरोवेदना , ज्वरः, पेशीवेदना , नयनयोः रक्तवर्णः इत्यादीनि यानि लक्षणानि "डङ्किज्वरे" दृश्यन्ते तान्येव अस्मिन् रोगे अपि दृश्यन्ते।