OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 13, 2017

द्विचक्रिकया सह यात्रिकः भस्मीभूतःI अन्ये यात्रिकाः निसड्गतया अगच्छन्।
ब्रीड् (महाराष्ट्रम्)> द्वयोः द्विचक्रिकयोः घट्टनेनैव अपघातः सञ्जातः। महाराष्ट्र स्य बीड्   जनपदस्य राजमागे एव इयं द्वौर्भाग्य घटना। घट्टनानन्तरनिमिषे एव महत्या अग्निबाधया यानमेकं यात्रिकेन सह भस्मीभूतः। किन्तु पथि विद्यमानाः पथिकाः निसङ्गाः भूत्वा गतवन्तः। सहायतायै कोऽपि न उद्युक्तः। नयनयोः पुरतः एकः अग्निना दह्यते इति दृष्ट्वा अपि एनं परित्यज्य गन्तुं शक्ताः करुणाहीनाः इति भीतिदः  विषयः एव। मानवानां संस्कृतिः एवं करुणाहीनं चेत् भविष्यकाले भारतस्य का गतिः ?l यात्रिकेषु येनकेनापि ग्रहीतं चलनचित्रखण्डं दृष्ट्वा मानव मनस्काः चिन्तयन्ति। चलनचित्रखण्डम् इदानीं सामूहिकमाध्यमेषु श्रद्धा बिन्दुः अभवत् ।
आरक्षकाः आगत्य अग्निशमनम् अकरोत्। अस्मिन्नन्तरे द्विचक्रिका तथा यात्रिकः च भस्मीभूतः अभवत्।  अत एव यानस्य सङ्खाफलकात् यात्रिकं प्रत्यभिज्ञातुं न शक्यते इति आरक्षकाः अवदन्।