OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 26, 2017

नरेनेद्रमोदि सर्वकारस्य तृतीयवार्षिकाघोषम् अद्य।
नवदेहली>नरेनेद्रमोदि सर्वकारस्य तृतीयवार्षिकाघोषम् अद्य आघुष्यते। वर्षत्रयस्य शासनेन भारतराष्ट्रस्य विभिन्नक्षेत्रेषु  विकासाः जाताः इति सुस्पष्टाः। २०१६ नवंबर् मासस्य अष्टमदिनाङ्कादारभ्य रुप्यकपत्राणां निरोधनमासीत् शासनसमयस्य प्रमुखं चर्चाविषयम्। अनन्तरं धनविनिमयं अधिकाशतया टिजिट्टल् रूपेण जातम्। दीर्घकालेन रुप्यकपत्राणां निरोधनं भारतानुगुणमेव भविष्यतीति विश्वार्थिकालयः अपि वदति।
उत्तरप्रदेश राज्यस्य भा जा पा सर्वकारस्य विजयस्य हेतू रुप्यकपत्राणां निरोधनं तथा सीमाप्रदेशे कृत सर्जिक्कल् स्ट्रैक् च भवतः।
जी एस् टी हेतुना जूलाई मासादारभ्य धान्यानां मूल्यं न्यूनं भविष्यति।
टिजिट्टल् इण्डिया परियोजनया केन्द्रसर्वकारस्य  सर्वेषाम् क्षेत्राणां आधाररेखाः टिजिट्टल् संजातम्।
भीं नामस्य आगमनेन आधारपत्रानुबन्ध आर्थिकविनिमयं सरलं जातम्।
वर्षत्रयाभ्यन्तरे मोदिना ५७ विदेशयात्राः कृताः। एवं ४५ विदेशराष्ट्रेषु सन्दर्शनं कृतम्। सन्दर्शनेन नयतन्त्रनिर्णयान् स्वीकर्तुं निर्णायक समयेषु हस्ताक्षरं कर्तुं च शक्यते स्म।
सौहृद उपग्रहस्य विक्षेपणेन पाकिस्थानं विहाय सप्त राष्ट्राणां वार्ताविनिमये साहाय्यता लभते। उपग्रहस्य नाम सौत् एषिया साट्लैट् इति आसीत्।पाक्किस्थानः अस्याः परियोजनायाः प्रारंभे एव पृष्टे गतः।
चतुर्वर्षाभ्यन्तरे एक कोटि युवजनान् कार्यं दतुं प्रधानमन्त्रि नैपुण्य विकासप्धतिः आरब्धः। ६० लक्षं युवजनान् कार्यप्रश्क्षणं तथा ४० जनान् नैपुण्याय अनौपचारिकं प्रमाणपत्रं च दातुं लक्ष्यमस्ति।
राष्ट्रे सर्वत्र जन् धन् योजना आविष्कृता। सर्वेषां कृते आर्थिकसेवाः अस्ति अस्य लक्ष्यम्।
मेय्क् इन् इण्डिया पद्धत्यनुसारं विदेशव्यवसायिनां साहाय्येन उत्पन्नानां निर्माणं अत्रैव प्रारभत।
२०१४ तमे लोकसभा विजयेन सह अंश(share market)विपण्यां जातं मोदिप्रेमं अद्यापि तिष्ठति। विदेशराष्ट्रेभ्यः भारतविपणिं प्रति धनं प्रवहति।
वर्षत्रयाभ्यन्तरे भारतं सम्पूर्ण शौचकूपराष्ट्रं भविष्यतीति मोदिना २०१६ वर्षस्य गान्धिजयन्ति दिने प्रख्यापितं। स्वच्छभारत पद्धत्यनुसारं कार्याणि द्रुतगत्या प्रचलति।
षट् शताब्दस्य तीव्रवादाक्रमणस्य अन्त्यं कृत्वा नागालाण्ट् राज्यस्य तीव्रवादिना सह केन्द्र सर्वकारेण चर्चां कृता। नागासमाधान समये हस्ताक्षरं कृतम्।
मन की बात् इति आकाशवाणी कार्यक्रमद्वारा प्रतिवारं समान्यजनैः सह प्रधानमन्त्री संवदति।
जीवनसुरक्षा प्रतिरोधकेषेत्रं भारत रेयिल्वे इत्यादि क्षेत्रेषु प्रत्यक्ष विदेशनिक्षेपनियमाः उदारीकृताः।
स्वप्न स्मार्ट् सिट्टी पद्धत्यनुसारं पञ्चवर्षेण ५०००० कोट्युपरि रूप्यकाणां निक्षेपं चयितेषु नगरेषु भविष्यति।
दशसहस्रं ग्रामाः वैद्युतीकृताः।  इदानीं विद्युत् विहीनाः केवलं ४००० ग्रामाः राष्ट्रे विद्यन्ते।
वाहनेषु बीक्कण् दीपाः निरोधिताः।
आसूत्रणायोगस्य बदलरूपेण नीति आयोगः आविष्कृतः।
वर्षत्रयाभ्यन्तरे ६ कोटि नवीन पाकवातक बन्धाः दत्ताः।
प्रथम प्रसूति आनुकूल्यतया ६००० रूप्यकाणि वनितानां कृते दीयते।
जवहर्लालस्य इव्दिरागान्धिनः च अनन्तरं सम्पूर्णविजयी भारत प्रधानमन्त्री भवति नरेन्द्रमोदी इति प्रमुख इतिहासकारेण श्री रामचन्द्र गुहेन उक्तम्। लण्डन् स्कूल् आफ् इक्णोमिक्स् संस्थायाः संगोष्ठ्यां भाषयन्नासीत् सः।