OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 2, 2017

अद्भुतं संसृज्य गोत्रछात्राः।
भोप्पालः>जाम्बुवादेशस्थाः पञ्चपञ्चाशत् गोत्रवर्गछात्रैः  अद्भुतं कार्यं कृतम्। अस्य संवत्सरस्य ऐ ऐ टी- जे इ इ प्रधान परीक्षायाम् उ न्नbतविजयं प्राप्य ते अभियान्त्रिक बिरुदाय प्रवेशनं प्रापुः।
जाम्बुवादेशे अधारसौविध्यानाम् अभावः,निरक्षरता च वर्तेते। एतादृशानि असौविध्यानि अतिजीव्य एव ते एतत् विजयं स्वीचक्रुः। लघु ग्रामीणाः एते छात्रः बहु दूरं पद्भ्यां गत्वा एव पठन्ति स्म।
जाम्बुवा जिल्ला पञ्चायत् कार्यकर्ता अनुराग् चौधर्या  छात्राणाम् अध्ययनाय सौविध्यं निर्मितम्। सर्वकार विद्यालयानां प्रगल्भान् अध्यापकानुपयुज्य विशिष्ट परिशीलनं कृतम्।गतसंवत्सरे त्रिंशत् छात्राः योग्यतां प्रापुः । आगामिनि संवत्सरे पञ्चशतं छात्राणाम् अस्ति लक्ष्यमिति अनुराग् चौधरी अवदत्।