विंशति: लष्करभीकरा: भारतम् प्रविष्टा: इति आवेद्यते;  प्रमुखनगरेषु जाग्रतानिर्देश:।
नवदिल्ली>विंशति: ततोप्यधिकं वा लष्कर् ई तोय्बा  भीकरा: भारतम् प्रविष्टा:  आक्रमणाय पद्धतिम् आसूत्रयन्त:  सन्ति इत्यपि सूचना प्राप्ता । केन्द्रगुप्तान्वेषणविभाग: राष्ट्रस्य प्रमुखनगराणां कृते जाग्रतानिर्देशम् अयच्छत् । मुम्बै, दिल्ली, पञ्चाब् , राजस्थानम्   एतानि राज्याणि  भीकरा: प्राविशन् इति सूचना । दिल्ली  आरक्षकवृन्दस्य प्रत्येकविभागानां कृतेपि जाग्रतानिर्देश : प्रदत्त: । एतदनुवर्त्य मेट्रो रेल्स्थानकेषु ,  रेल्स्थानकेषु , विमानपत्तनेषु , प्रमुखभोजनशालासु च चतुर्विंशतिघण्टानिरीक्षणम्  आरब्धम् ।