OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 15, 2017

न्युमोणिया नाम ज्वरस्य प्रतिरोधौषधं भारतेन सम्पादितम्।
नव दिल्ली> रोगप्रतिरोध प्रवर्तनानां आवश्यकतायै न्युमोणिया नाम रोगस्य रोधाय औषधः भारतेन निर्मितम्। पञ्चवयसः न्यूनाः ये शिशवः सन्ति, तेषां मध्ये प्रतिशतं विंशतिः मरणं अनेन न्युमोणिया मनञ्चैट्टिस् रोगेण संभवति।  तं रोगं रोद्धुमेव पि सि वि नाम इदं औषधम्।
राष्ट्रस्य शिशूनां रोगव्यापनस्य तथा मरणस्य च संख्या न्यूनीकर्तुम् सर्वकारः बद्धश्रद्धः इति स्वास्थ्यमन्त्रिणा जे पि नड्डेन उक्तम्। प्रतिरोधौषधस्य अभावेन एकस्यापि शिशोः मृत्युः मा भवेत् इति सर्वकारस्य लक्ष्यम् इति च तेन उक्तम्।
हिमाचल प्रदेशे उत्तर् प्रदेशे  बिहारे च औषधप्रयोगः आरब्धः। द्वितीयश्रेण्यां मध्यप्रदेशे राजस्थाने च औषध प्रयोगः भविष्यति। आभारतम् औषधदानमेव लक्ष्यमिति मन्त्रिमहोदयेन उक्तम्।