OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 14, 2017

भारतम् अभिव्याप्य ९९ राष्ट्राणां विरुध्य सैबर् आक्रमणम्। 
नवदिल्ली >आगोलसैबर् सुरक्षां  धर्षयित्वा भारतम् अभिव्याप्य एकोनशतं राष्ट्राणि प्रति हाक्कर् नामकनीचकर्मचारिणाम् आक्रमणम्। सङ्गणकयन्त्राणि पिधानं कृत्वा मोचनद्रव्याणि अपेक्षमाणं रान्संवेर् नामके विभागे अन्तर्भूतः आयुधः एव आक्रमणकारिभि उपयुक्तः।
   आन्ध्राप्रदेशस्य १०२ आरक्षकसङ्गणकयन्त्राणि आक्रमणविधेयानि अभवन्। स्वीडन् ब्रिट्टन् फ्रान्स् रूस् इत्येतेषु राष्ट्रेषु प्रथमम् आक्रमणं जातम्। मैक्रोसोफ्ट् संस्थायाः विन्डोस् नामकेन प्रवर्तकतत्वेन (Windows Operating System) उपयुज्यमानानि सङ्गणकयन्त्राण्येव आक्रमणविधेयानि अभवन्।
     पिहितानि सङ्गणकयन्त्राणि उद्घाटयितुम् एकैकं प्रति ३०० डोलर् परिमितं धनमेव अपेक्षितम्।